SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५१० चरक-संहिता। ( रोगानीकविमानम् सोपचारसहस्तद्विपरीतलक्षणस्तु मन्दः, समस्तु खल्वपचारतो विकृतिमापद्यते अनपचारतस्तु प्रकृतावेवावतिष्ठते। समलक्षणविपरीतलक्षणस्तु विषमः ॥ ६ ॥ अनुमानार्थं प्रागभिहितम् अग्नि जरणशक्त्येति । सर्बोपचारसहः सदसद्भोजनमात्रामात्रातिशयसहः। एतेन प्रभूतमप्यपयुक्तमाहारं शीघ्र पचतीति ख्यापितम्, स एवातिवर्द्धमानोऽत्यग्निराख्यायते इति परैः। स एव भस्मक इत्यन्यैराख्यायते इति। तद्विपरीतलक्षणस्त अल्पापचारस्याप्यसहः। समस्वित्यादि प्रकृतावेवावतिष्ठते। एतेन यथाकालं मात्रावदुपयुक्तमाहारं सम्यक् पचतीति ख्यापितम्। समलक्षणविपरीतलक्षणस्विति अपचारानपचाराभ्यां न वा प्रकृतिं न वा विकृति भजते, कदाचित् सम्यक् पचति कदाचिदाध्मानादिकं कृत्वा पचतीति भावः। सुश्रुतेऽप्युक्तम्-प्रागभिहितोऽग्निरन्नस्य पाचकः। स चतुर्विधो भवति, दोषानभिपन्न एको विक्रियामापन्न स्त्रिविधो भवति । विषमो वातेन, तीक्ष्णः पित्तेन, मन्दः श्लेष्मणा, चतुर्थः समः सर्वसाम्यादिति। तत्र यो यथाकालमन्नमुपयुक्तं सम्यक् पचति स समः समैदोषैः। यः कदाचित् सम्यक् पचति कदाचिदामानशूलोदावर्तातिसारजठरगौरवात्रकूजनप्रवाहणानि कृखा स विषमः। यः प्रभूतमप्युपयुक्तमन्नमाशु पचति स तीक्ष्णः, स एवाभिवर्द्धमानोऽत्यग्निरित्याभाष्यते ; स मुहम्मुहुः प्रभूतमप्युपयुक्तमाशुतरं पचति, पाकान्ते च गलताल्वोष्ठशोषदाहसन्तापान् जनयति । यः स्वल्पमप्युपयुक्तमुदरशिरोगौरवकासश्वासप्रसेकच्छदिगात्रसदनानि कृता महता कालेन पचति स मन्दः। विषमो वातजान् रोगान् तीक्ष्णः पित्तनिमित्तजान् । करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् ॥ इति। अत्र वातजानिति महारोगाध्याये उक्तानशीतिर्वातविकारान्। एवं चत्वारिंशतः पित्तविकारान् विंशतिं कफविकारान। अन्यत्रातितीक्ष्णाग्निः पठितः। अतिमात्रएन "तीक्ष्णः सर्वापचारसहः” इत्यादिना यच्चातुर्विध्यमुक्तम्, तज्जठराग्नितीक्ष्णतादिमूलत्वगग्न्यादितीक्ष्णत्वादिरेवेति ज्ञेयम्। वचनं हि-तन्मूलास्ते हि तवृद्धिक्षयवृद्धिक्षयात्मकाः" इति। यद्यपि समोऽग्निः शस्तस्वेनाग्रेऽभिधातु युज्यते, तथापि समतश्च तीक्ष्णस्यैव प्राधान्योपदर्शनार्थमिहाग्रेऽभिधानम्। समस्य हि प्राधान्यं निर्विकारत्वेनैव सुस्थितम्, तीक्ष्णः सर्वापचारसहत्वेन प्रधानम् । तेन तद्विपरीतलक्षणं सिध्यति,- स्वल्पापचारमपि यो न सहते, स मन्द इत्यर्थः। समलक्षणविपरीतलक्षण इति कदाचिद्विषमोऽपचारादपि न विक्रियते, कदाचित For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy