________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः विमानस्थानम् ।
१५०६ एवमेष संज्ञाप्रकृतो भिषजां दोषेषु चैव व्याधिषु च नानाप्रकृतिविशेषाद व्यूहः ॥ ५॥
अग्निषु तु शारीरेषु चतुर्विधो विशेषो बलभेदेन भवति । तद् यथा-तीक्ष्णो मन्दः समो विषमश्चेति । तत्र तीक्ष्णोऽग्निः एकोल्वणास्त्रिविधा एकदोपा हीनमध्याधिकाः षड़ विधा एकदोषाः द्विदोषसमन्वयेषड़ विश एकदोषा इति पञ्चदशविधोऽनुबन्ध्यानुबन्धविशेषकृतो भेदः। तथा त्रिदोषद्धो द्वाल्वणा द्विकाः त्रिविधा इत्यनुवन्ध्यानुवन्धविशेषकृतस्त्रिविधो भेद इति अष्टादशविध एवानुबन्ध्यानुबन्धविशेषकृतो भेदः। द्विदोषाभिपाते त्रिविधाश्च द्विका अनुबन्ध्यरूपकृतो भेदस्त्रिविधः । पृथक् दोषाभिपाते एकदोपास्त्रय इति अनुबन्ध्यकृतस्त्रिविधो भेदः । समत्रिदोषसन्निपाते एकः सन्निपातः इत्यनुबन्ध्यकृत एकविधो भेद इति पञ्चविंशतिविधो वृद्धावस्थायां भेदः । अनुबन्ध्यानुबन्धाभ्यां व्यपदिश्यते भेद इति । एवं क्षयावस्थायां पञ्चविंशतिविधो भेदः । क्षयस्थानवृद्धावस्थायान्तु द्वादश विधो भेद इति द्विषष्टिविधेषु भेदेषु मध्ये द्वाचवारिंशद्विधो भेदोऽनुवन्ध्यानुबन्धविशेषकृतः, शेषास्तु अनुबन्थ्यकृता अष्टौ द्वादशधा च मिश्ररूपाः। उपसंहरति-एवमेष इत्यादि । एवं प्रकारेण दोषेषु चैव भिषजां एष बहुविधो भेदः संशाप्रकृतः, न तु व्याधिषु । व्याधिष च पुनः नानाप्रकृतिविशेषात् दोषागन्तुरूपनानाप्रकृतिप्रभेदात् भिषजा संशा प्रकृतो व्यूहः समूह इत्यर्थः ॥५॥
गङ्गाधरः-अथ प्राणिनां कायाग्निजीवितत्वात् दोषप्रभवसाच्च कायाग्निषु भिषजां संशाप्रकृतो भेदः कीदृश इत्यत आह-अग्निषु खित्यादि। शारीरेष इत्यनेन भौताग्निधावनीनां निरासः। चतुविधो विशेषोऽग्निषु तु भिषजां संशाप्रकृत इत्यन्वयः । बलभेदेनेति बलं समं विषमं तीक्ष्णं मन्दञ्चेति । तदभेदेन कीदृशश्चतुर्विध इत्यत आह–सम इत्यादि । तत्र प्रतिलोमतत्रयुक्त्या लक्षयति भवत्येव भनुबन्ध्यानुबन्धरूपसंसर्गविशेषेण कृतः। संज्ञाप्रकृत इत्यनुबन्ध्यानुबन्धसनिपातसंसर्गज्वरातिसारादिसंज्ञाकृत इत्यर्थः। नानाप्रकृतिविशेषन्यूह इति यथोक्तनानाकारणविशेषहतो ऽवरातिसारादिरूपो व्याधीनां दोषाणाञ्च समूह इत्यर्थः। भिषजामितिपदेन च वैद्यामामप्येवं समयसिद्धाऽनुबन्ध्यादिसंज्ञेति दर्शयति ॥५॥
चक्रपाणिः-दोषभेदविकारभेदमभिधाय शरीरस्थितेः प्रधानकारणस्याग्नेर्भेदमाह-अग्निषु. इत्यादि। शारीरेष्विति सामान्यवचनेन सर्वशरीरगतानग्नीन् ग्राहयति, विवरणे तु जठराग्निः
For Private and Personal Use Only