SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५०८ चरक-संहिता। रागानीकविमानम् तद्विपरीतलक्षणश्चानुबन्धः। अनुबन्धानुबन्धलक्षणसमन्विता ® यदि तत्र दोषा भवन्ति तत् त्रिकं सन्निपातमाचक्षते द्वयं वा संसर्गम्। अनुबन्धानुबन्धविशेषकृतस्तु बहुविधो दोषभेदः। व्यक्तलिङ्ग इति। व्यक्तानि लिङ्गानि यस्य स व्यक्तलिङ्ग इति व्यक्तैलिङ्गरनुमीयतेऽनुवन्ध्यः। तानि लिङ्गानि यदि गृहानि भवन्ति वदा कथं ज्ञायते इत्यत आह-यथोक्तसमुत्थानप्रशम इति। यस्य व्याधेयद्यत् समुत्थानमुत्पत्तिकारणमुक्तं यश्च यस्य व्याधेः प्रशमनहेतुरुपशय उक्तस्तत् समुत्थानं तदुपायैः प्रशमश्च यस्य स यथोक्तसमुत्थानप्रशम इत्यर्थः । तद्विपरीतलक्षणः परतत्रोऽनुबन्ध्यसमुत्थानप्रशमाभ्यामेव समुत्थानप्रशमश्चानुवन्ध इति। नन्वेवं किं सन्निपातो बहुविधः संसर्गश्चानेकविधः स्यादित्यत आह-अनुबन्ध्येत्यादि । अनुबन्ध्यानुवन्धरूपत्रिदोषसमन्वये सन्निपातमाचक्षते न बनुबन्ध्यमात्ररूपत्रिदोषसन्निपाते, तत्र पुनयों यो दोषोऽनुबन्ध्यरूप एको भवति तदा एकदोषमाचक्षतेऽनुवन्धस्याप्राधान्येन तद्वापदेशाभावात्। पृथक पृथगेकदोषाभिपाते तु एकदोषो न व्याहन्यते तेन । न च पूर्व भेदाग्रमुपहन्तीति वचनात् । द्वयं वा संसर्गम् अनुबन्ध्यानुबन्धलक्षणो द्वौ दोषौ यदि तत्र समन्वितौ भवतस्तदा तद् द्वयं वा संसर्गमाचक्षते इत्यर्थः । ननु तथाविधस्त्वेकदोषद्विदोषाश्च कतिधा भवन्तीत्यत आह–अनुबन्ध्यानुबन्धविशेषेत्यादि। बहुविधो दोषभेद इति वृद्धावस्थायांत्रयाणांसन्निपाते यथोक्तो दोपो लक्षणीयः, स्वतन्त्र इत्यस्यैव विवरणम्-व्यक्तलिङ्ग इत्यादि। यथोक्तसमुत्थानप्रशम इति स्वहेतुसमुत्थितः स्वचिकित्सयैव प्रशमनीयः। किंवा, स्वतन्त्र इत्यनेनापि स्वविकारकरणे प्राधान्यमुच्यते, स्वतन्त्रो हि दोषः प्रकोपकाले विकारान् करोति। अस्वतन्त्रस्त्वप्रकोपकाल एव विकारं ज्वरातिसारादिरूपं तथाऽनुबन्ध्यानुबन्धाकारं प्रधानदोषेरितः सन् करोति। तद्विपरीतलक्षण इत्यनेनाव्यक्तलिङ्गोऽस्वहेतुप्रकुपितः परचिकित्साशमनीयश्चानुबन्ध इति लभ्यते, अनुबन्धो ह्यबलवत्त्वेन न लिङ्ग व्यक्त करोति, तथा परहेतुना किश्चिदनुगुणेन प्रकुपितः परचिकित्सयैव किञ्चिदनुगुणतया शाम्यति । यथा-शरदि इलेष्मा पित्तहेतुना जलायम्लविपाकेन जन्यते, स च पित्तचिकित्सयैव तिक्तसपिरादिकया कफोऽप्यनुगुणतया शाम्यति । द्वयं वानुगुणलक्षणं प्राप्तं संसर्गमाचक्षत इति योजना । अनुबन्ध्यशब्दश्चायं व्यक्तलिङ्गतादिधर्मयुक्त दोषे वर्त्तते। तेनाप्रधानानुगमनीये सन्निपाते अनुबन्धाभावेऽप्यनुबन्ध इति व्यपदेशो * अनुबन्ध्यलक्षणसमन्वितेति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy