________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०४ चरक-संहिता।
रोगानीकविमानम् च व्याधिषु च। दोषा ह्यपि रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रतिशब्दं विकारशब्दश्च लभन्ते । व्याधयश्च रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रकृतिशब्दं विकारशब्दश्च लभन्ते । तत्र दोषेषु च व्याधिषु च रोगशब्दः समानः शेषेषु तु विशेषवान्। तत्र व्याधयोऽपरिसंख्यया भवन्त्यतिबहुत्वात् दोषास्तु खलु परिसंख्यया भवन्त्यनतिबाहुल्यात् । तस्माद यथोचितं ® विकारानुदाहरणार्थमनवशेषेण च दोषान् यथावदनुव्याख्यास्यामः॥ ४ ॥ श्चेति रोगशब्दाभिहिता अनेकार्थाः। दोषा अपि रोगादिनानाशब्दाभिहिता अर्था इति। व्याधयश्चापि रोगादिनानाशब्दाभिहिता अर्थाः। तेन द्वे रोगानीके इत्युक्तौ ज्वरादिवोधने दोषबोधने च प्रकृत्यनुप्रयोगान्तरमपेक्षते । तत्रेत्यादि। शेषेषु ज्वरादिषु विशेषवानित्यसमान इंति। तत्रेत्यादि । तत्र रोगशब्देन व्याधावभिधेये प्रकृतौ रोगा अपरिसङ्घ त्रया अतिबहुतात् । दोषेऽभिधेये रोगाः परिसंङ्खये याश्चानतिबहुसात् इति। प्रकृते रोगस्य पूर्वप्रयोगस्य प्रकृत्यनुप्रयोगान्तरं व्याधय इत्यादि। दोषास्वित्यादिकश्च । तस्माद्याधीनामपरिसङ्घ प्रयखात् दोषाणां परिसङ्के यखाच। उदाहरणार्थमिति विकाराणां यथोचितमुदाहरणार्थम्। यथोचितमिति प्रायोभाविनो रोगस्य। सशेषेणेति अनिःशेषेण कियदवशेष विकाराननुव्याख्यास्यामः । दोषाणामुदाहरणार्थमनवशेषेण च निःशेषेण च दोषाननुव्याख्यास्याम इति प्रतिजानीत ॥४॥ शब्दानभिहिता अर्थाः । तत्रोदाहरणमाह-समानो हीत्यादि। दोषेषु व्याधिषु च समान उभयवाचकत्वेन तुल्यो रोगशब्दः, तेन रोगदोषसमानत्वेनाभिधेयसमानानां रोगातङ्कयक्ष्मादिशब्दानां सर्वेषामेव वक्ष्यमाणानां ग्रहणम्। शेषेष्विति हेत्वादिषु, विशेषवानित्यभिधानरूपविशेषवानित्यर्थः। तत्रापि रोगशब्दाभिधेयतासमानेऽपि दोषे तथा विकारे च परिसंख्येयाऽपरिसंख्येयरूपा विगीतिरस्त्यथ चादोष इत्यभिप्रायेणाह-तन्नेत्यादि। एकैकस्मिन् दोषे बहवो विकारा भवन्तीत्यभिप्रायेण विकारापेक्षया दोषाणामनतिबहुत्वं ज्ञेयम्। यथाचित्रमिति यथाविन्यासम्, तेन यानेव पूर्ध्वाचार्या विकारानधिकतमत्वेनोक्तवन्तस्तानेव व्याख्यास्यामः, न तु __* यथाचित्रमिति च]ः।
For Private and Personal Use Only