________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अध्यायः
विमानस्थानम्।
१५०५ रजस्तमश्च मानसौ दोषौ, तयोविकाराः कामक्रोधलोभमोहमानमदशोकचिन्तोद्व गभयहर्षादयः। वातपित्तश्लेष्माणस्तु खलु शारीरा दोषास्तेषामपि विकारा ज्वरातिसारशोथशोषश्वासमेहकुष्ठादय इति। दोषाः केवला व्याख्याता विकारैकदेशश्च । तत्र तु खल्वेषां द्वयानामपि दोषाणां त्रिविधं प्रकोपणम् । असात्मेन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्चेति। प्रकुपितास्तु खलु प्रकोपणविशेषादृष्यविशेषाच विकारविशेषानभिनिवर्तयन्त्यपरिसंख्येयान्। ते खलु विकाराः परस्परमनुवर्तमानाः कदाचिदनुबन्नन्ति कामादयो ज्वरादयश्च। नियतस्त्वनुबन्धो
गङ्गाधरः-तत्रादौ प्रतिलोमतन्त्रयुक्त्या दोषान् निःशेषेण व्याख्यानयतिरजस्तमश्चेत्यादि। आदिना द्वेषादयश्च। वातेत्यादि आदिना कासादयश्च। दोषाः केवला इति कृत्स्नाः। तत्र खित्यादि । प्रकोपणमिति वैषम्यकारणम्। परिणामश्चेत्यतोऽनन्तरमुक्तं प्रागिति शेषस्तेन न पुनरुक्तम् । अनुवादोऽयं विकारापरिसंख्येयवकथने हेतूपदेशार्थम्। प्रकुपितास्विति दोषा इत्यनुवत्तेते । अपरिसङ्घय यान् विकारविशेषानित्यन्वयः। ते च शारीरदोषजा ज्वरादयो विकारा मानसदोषजाः कामादयश्च विकारा अनुवत्तेमाना जातोत्तरमधिककालं वत्तमानाः परस्परमनुबध्नन्ति कदाचिन्नैकान्ततः। नियतस्तु सर्वान् अशक्यत्वात्। किंवा यथोचितमिति पाठः। अनवशेषेण च दोषा इत्यनेन दोषा अनति. बहुत्वेनानवशेषेणाप्यभिधातु शक्यन्त इति प्रकाशयति ॥ १-४॥
चक्रपाणिः-तत्र मानसदोषविकारयोरनल्पवक्तव्यतयाऽग्रेऽभिधानम् । ननु परिमिताहोषरूपात् कारणात् कथमपरिमिता विकारा भवन्तीत्याह-प्रकुपितास्वित्यादि। हेतुविशेषदुष्टो हि स एवं दोषो दूष्यान्तरगतश्च विभिन्नशक्तियोगाद् बहून् विकारान् करोतीति युक्तमेव। उक्तञ्च"स एव कुपितो दोषः समुत्थानविशेषतः। स्थानान्तरगतश्चैव विकारान् कुरुते बहून् ॥" इति।
विकाराणां शारीरमानसानां परस्परं संसर्गमाह ते खलु विकारा इत्यादि। अनुवर्तमाना इत्यनेन यसैव ज्वरादयः कामादयो वाऽबलत्वेन च चिरकालमनुवर्तन्ते, तदैवानुबध्नन्ति प्रायः। यदा तु स्तोककालावस्थायिनो भवन्ति, न सदा प्रायोऽनुबध्नन्तीत्यर्थः । किंवा अनु
१८१
For Private and Personal Use Only