SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ष्ठ अध्यायः विमानस्थानम्। १५०३ समानायामपितु भेदप्रकृतौ प्रकृत्यनुप्रयोगान्तरमपेक्ष्यम् । सन्ति ह्यान्तराणि समानशब्दाभिहितानि, सन्ति चानान्तराणि पर्यायशब्दाभिहितानि। समानो हि रोगशब्दो दोषेषु द्विवमुक्तं पुनः प्रभावादिभेदेन द्वित्वं यत् कृतं तच्च तत्पूर्वकृतं तद्वित्वं न व्याहन्तीत्यर्थः ॥३॥ गङ्गाधरः-ननु द्वे रोगानीके इति प्रतिज्ञाय त्रीणि रोगानीकानीति पुनवेचने प्रतिज्ञाहानिरेव भवति न चाविगीतिः स्यादित्यत आह-समानायामित्यादि। समानायामपि समानायामसमानायाश्च भेदप्रकृतौ रोगादौ भिद्यमाने प्रकृतेरनुप्रयोगान्तरमपेक्ष्यं तदर्थवोधकानुप्रयोगोऽपेक्ष्यते। यथा द्वे रोगानीके प्रभावभेदेनेत्युक्त्वा पुनर्द्व रोगानीके इत्युक्तौ त्रीणि रोगानीकानीत्युक्तौ च तद्भेदकधम्मस्य प्रकृतेरनुप्रयोगान्तरं मृदुदारुणबलभेदेन निजागन्तुमानसभेदेनेत्यनुप्रयोगापेक्षा स्यात् । ननु कुतः प्रकृत्यनुप्रयोगान्तरमपेक्ष्यमित्यत आह-सन्तीत्यादि। एकशब्दाभिहिता अनेकार्थाः सन्ति। सन्ति च एकविधार्था अनेकशब्दवाच्याः। उदाहरणमाह-समानो हीत्यादि । एको रोगशब्दो दोषवाचको व्याधिवाचकद्वे रोगानीके तथा दश रोगानीकानीत्यादि। न च पूर्व भेदाग्रं भेदप्रमाणमुपहन्ति। एवं मन्यते-यद्धर्मयोगविवक्षया एकत्वमुक्तं, तद्धर्मयोगविवक्षयैव यदि बहुत्वमप्युच्यते रोगाणाम् . ततो विरोधो भवति। न हि तदेवैकञ्चानेकन्चेत्युपपन्नम्। यदा तु धर्मान्तरयोगविवक्षया बहुत्वमुच्यते, न तदा विरोधः ; बहुत्वाभिधानकाले बहूनामेव रोगधर्माणां विवक्षितत्वात् । रोगाणामेकत्वमेकधर्मविषयम्, बहुत्वञ्च बहुधर्मविषयमिति न विरोधः। ननु यत्रासमानभेवकारणं तत्र कारणान्तरकृतत्वादुक्तन्यायेन विगीतिः साध्वी भवतु, यत्र तु दश रोगानीकानि प्रभावादिद्वविध्यादुच्यन्ते, तत्र कथं द्वे रोगानीके इति द्वित्वं कृतम्, द्वैविध्यमभिधाय पुनर्द्विवाद भेदेनैव दशत्वमुच्यते। सामान्यो ह्ययं द्विधाशब्दो द्वित्वे दशत्वे च रोगाणां हेतुरित्याह-समानायामपीति, समानशब्दाभिधयत्वेनापाततः समानायामित्यर्थः। प्रकृतानुप्रयोगान्तरमपेक्ष्यमिति, प्रकृतस्य समानशब्देनाभिहितस्य यद्भदख्यापकं पश्चात् प्रयोगान्तरम्, तदपेक्षणीयं विगीतिसमानार्थमित्यर्थः। एतेनैतद् दर्शयति-यद्यपि द्विशब्दो रोगप्रभावे तथा रोगबलादौ च समानः तथाप्येकत्र प्रभावभेदानुप्रयोगान्तरमपेक्ष्य प्रभाव विध्ये वर्त्तते, तथा बलभेदानुप्रयोगान्तरमपेक्ष्य च द्विशब्दो बलद्वैविध्ये वर्तत इत्यादि। तदेवोपपादयति सन्तीत्यादिना। अर्थान्तराणि पर्याय • प्रकृतानुप्रयोगान्तरमिति पाठान्तरम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy