________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०२ . चरक-संहिता। [ रोगानीकविमानम् इत्यतो दोषवती स्यात्, भेत्ता हि भेद्यमन्यथा भिनत्ति । अन्यथा पुरस्तात् छ भिन्नं भेदप्रकूत्यन्तरेण भिन्दन् भेदसंख्याविशेषमापादयत्यनेकधा, न च पूर्व भेदायामुपहन्ति ॥३॥ नचाविगीतिरित्यादि। भेदकश्रेष्ठधर्मान्तरेण वायव्यवादिना रोगानीकस्य भेदानाश्चाविगीतिरविरुद्धा गीतिरित्यतः काचिदपि द्विवादिप्रतिशा न च दोषवती स्यात् सर्वा हि साध्वी प्रतिज्ञा। ननु कुतोऽसौ सर्वा प्रतिक्षा सावीत्यत आह-भेत्ता हीत्यादि। हि यस्यात् भेत्ता भावानां भेदोपदेष्टा भेद्य भेदविषयभावमन्यथा भिन्नमन्यप्रकारेण भिनत्ति। कथं भिनत्तीति भेदकरणं विवृणोति-अन्यथेति। पुरस्तात् पूर्वमन्यथा धम्मविशेषेण। पूर्वकृतभेदकधातिरिक्तधम्मेण भिन्दन्नपरभेदं कुर्वन् भेदसंख्याविशेषं भेदेन सयाविशेष पूर्वकृतभेदादपरभेदैन सङ्ख्याप्रभेदं पूर्वसङ्ख्यातोऽपरसङ्ख्यामनेकधापादयति । न च पूर्व कृतं भेदाग्रा भेदश्रेष्ठमुपहन्ति व्याहतं न करोति। एकानेकदोषभेदेन द्विधा राजसतामसभेदेन द्विधा शीतोष्णभेदेन द्वौ ज्वरावित्येवं रूपा भवन्ति । बहुत्वमपीत्युक्त प्रभावभेदादिकृतत्वादपि बहुत्वमित्यर्थः। संख्येयत्वमष्टीदरीये "अष्टचत्वारिंशद्रोगाधिकरणान्यस्मिन संग्रहे" इत्यादिनोक्तम् । असंख्येयत्वं महारोगाध्याये तु "तत्र तत्र वापरिसंख्यया भवन्ति रुजावर्णस्थानसंस्थाननामभिः" इत्यनेनोक्तम् ।
ननु संख्येयत्वमसंख्येयत्वञ्च विरुद्धावेतौ धम्मों, तथैकत्वमनेकत्वचेति विरुद्धौ । तत् कथं विरुद्धत्वेन ख्यातौ धर्मावेकस्मिन् रोगे घटेतामित्याह-न चेत्यादि । संख्येयाप्रेष्विति संख्येयरोगपरिमाणेषु, अग्रशब्दः परिमाणे वर्त्तते। तथै कैकस्य भेदाग्रमपरिसंख्येयं भवति, भेदसंख्यारूपं परिमाणमित्यर्थः। भेदप्रकृत्यन्तरीयेष्विति भेदकारणान्तरभवेषु। विरुद्धा गोतिः विगीतिः, यथा- एकञ्चानेकञ्च तद इत्यादिका विरुद्धा गीतिः। अत इति यथोक्तविगीतियोगात्, न दोषवती काचित् प्रतिज्ञा, यथा---'अनेकरूपा ह्यल्परूपा'। अत्रोक्ता स्यादिति योजना। विगीतौ दोषाभावं दर्शयित्वा भेदकारणान्तरकृतायामविगीतावपि दोषो भवतीति दर्शयन्नाह-न चाविगीतिरित्यादि। यदि ये रोगानीकं रुजासामान्यादित्यभिधाय पुनरेक रोगानीकं प्रभावभेदादित्यविरुद्धा एकताख्यायिकाऽविगीतिः क्रियते, तथापि सा विरुद्धव स्यात् । यतो न प्रभावभेदेन रोगाणामेकत्वमुपपन्नम्, किन्तु द्वधमेवेति भावः। विगीतौ दोषाभावे हेतुमाह-भेत्ता होत्यादि। भेत्ता पुरुषः, भेद्य रोगम् । अन्यथा त्वेकत्वादिना भिनत्ति, अन्यथा एकत्वेन पुरुषः सावत् भेद्यञ्च अन्यथा भिनत्तीति। अस्यार्थं व्याकरोति भेदप्रकृत्यन्तरेणेत्यादिना। अनेकवेति
* पुरुषास्तावदिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only