SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ष्ठ अध्यायः विमानस्थानम् । १५०१ एकत्वं तावदेकमेव रोगानीकं रुक्सामान्याद् बहुत्वन्तु दश रोगानीकानि प्रभावभेदादिना भवन्ति। बहुत्वमपि संख्येयं स्यादसंख्येयं वा स्यात् । तत्र संख्येयं तावद् यथोक्तमष्टोदरीये। अपरिसंख्येयं पुनर्यथा महारोगाध्याये-रुवर्णसमुत्थानादीनाम् अपरिसंख्येयत्वात्। न च संख्येयाग्रषु भेदप्रकृत्यन्तरीयेषु विगीतिरित्यतो दोषवती स्यादत्र प्रतिज्ञा काचित्, न चारिगीतिः काभिरपराभिर्भेदस्य प्रकृतिभिर्भेदकधर्मभिद्यमानमपि सन्धीयमानं संक्षिप्यमाणमेकलं स्याद्रोगानीकस्य अथवा व्यस्यमानं बहुखं स्यात् । तत्र केन भेदप्रकृत्यन्तरेण भिद्यमानमपि सन्धीयमानमेकलं स्यादथवा व्यस्यमानं बहुख स्यादित्यत आह-एकसमित्यादि। रुक्सामान्यात् रोगवसामान्यात् । प्रभारभेदादिनेति साध्यासाध्य-मृदुदारुण-पानसशारीर-धातुवैषम्यजागन्तुजामाशयसमुत्थपकाशयसमुत्थानीत्यर्थः। ननु बहुत्वं किं त्रिखादिकमपरिसवो यं वेत्यत आह-बहुखमपीत्यादि। द्विविधं बहुत्वं सङ्घ यमसो यञ्च । अष्टोदरीये अष्टावुदराणीत्यादिरूपेण संख्येयं बहुखमुक्तम्। महारोगाध्याये इति वातविकाराणामपरिसंख्येयानामाविष्कृततमत्वेनाशीतिर्वातविकारा व्याख्याता भवन्तीति वातविकारस्यैवमेव पित्तकफविकारयोश्चलारिंशत्त्वविंशतित्वे उक्त्वा अप्यपरिसंख्येयं बहुखमुक्तं रुग्वर्णादीनां भेदप्रकृत्यन्तराणामपरिसंख्येयवात् । न चेत्यादि। ननुसंख्येयानां भेदकधर्मभेदैः परिसंख्यातु विषयाणां रोगानीकस्यैकवादीनां संख्यानां मध्येऽप्रषु श्रेष्ठेषु भेदकधर्मान्तरेणाग्नेयवसौम्यत्ववायव्यवराजसखतामसखवातिकखादिना कृतेषु रोगानीकस्यै कलादिष संख्यानेषु विगीतिविरुद्धा गीतिरैकान्तिकवचनं न भवतीत्यतो हेतोरत्र सर्वप्रतिशा एकखादिरूपा दोषवती स्यात् भेदकधास्थैर्यादित्येवं सर्वव प्रतिज्ञा अत्रास्थिरतया न च व्यभिचार दोषवती स्यात् । कस्मादित्यतस्तदोषं परिहरति भेदकारणान्तरेण। तथापि सन्धीयमाने सति एकीक्रियमाणे एकबुद्धिकारकानुगतधर्मान्तरेणेति बोद्धव्यम्। दुःखसामान्यादिति दुःखकर्तृत्वेन सर्वरोगानुगतेन साधारणेन रूपेण सर्वरोगा एक * दुःखसामान्यादिति चक्रः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy