________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः। अथातो रोगानीकं विमानं व्याख्यास्यामः, इतिह
स्माह भगवानात्रेयः ॥ १॥ व रोगानीके भवतः प्रभावभेदेन साध्यमसाध्यञ्च, द्वे रोगानीके बलभेदेन मृदु दारुणश्च । व रोगानीके अधिष्ठानभेदेन मनोऽधिष्ठानं शरीराधिष्ठानञ्च, द्वे रोगानीके निमित्तभेदेन धातुवैषम्यनिमित्तञ्चागन्तुजञ्च, द्व रोगानीके आशयभेदेन आमाशयसमुत्थञ्च पक्वाशयसमुत्थञ्च ॥ २॥ ___ एवमेतत् प्रभावबलाधिष्ठाननिमित्ताशयभेदात् द्वैधंसदभेदप्रकृत्यन्तरेण भिद्यमान वा सन्धीयमानं स्यादेकत्वं बहुत्वं वा। ___ गङ्गाधरः--अथ रोगमानविज्ञानार्थ स्रोतोविमानानन्तरं रोगानीकं विमानम् आरभते-अथात इत्यादि। रोगाणामनीकं समूहस्तमधिकृत्य कृतं विमानम् इति रोगानीकं तत् तथा ॥१॥
गङ्गाधरः-वे रोगानीके द्विविध रोगानीकमित्यर्थः। प्रभावः प्रभवन भवनमुत्पत्तियद्रूपं यस्य तत्र येन भवनेन यत् द्रव्यं स्वकर्माणि प्रभुभवति तत् प्रभवनं प्रभावः। प्रभावं विकृणोति। साध्यमसाध्यञ्चेति। साध्यखमसाध्यवञ्चेति द्व स्वप्रभावजे। मृदुलं दारुणवं द्वे वले । अकष्टकारिखं मृदुखम् आशुकारिखादिरूपलं दारुणखम् ॥२॥
गङ्गाधरः-नन्वेवमेव भेदो रोगानीकस्य न खधिकोऽस्तीत्यत आह-एवमित्यादि। द्वैधं द्विविधं सत् भेदप्रकृत्यन्तरेण एभ्यः प्रभावादिभ्योऽप्यधि
चक्रपाणिः-पूर्वाध्याये स्रोतोरूपाधिष्ठानभेदेन रोगानभिधाय प्रभावादिभेदेन रोगानभिधातु रोगानीकं विमानमुच्यते। रोगानीकमिति रोगसमूहः। बलभेदेनेत्यत्र मृद्वल्पबलम्, दारुणन्तु महाबलं ज्ञेयम् । दारुणं किञ्चित्कालानुपातादेव बलवत्त्वान्मारयति। यदुक्तम्-"सन्ति मेवंविधा रोगाः साध्या दारुणसम्मताः। ये हन्युरनुपक्रान्ता मिथ्याचारेण वा पुनः ॥” इति । आमाशयसमुत्थत्वेन आमाशयाश्रयिकफपित्तजाः सर्वे गदा गृह्यन्ते। पक्वाशयसमुत्थग्रहणेन सर्वे वातजाः। एवं सर्वविकारावरोधः। द्वैधं सदिति द्वैविध्यं सत्। भेदप्रकृत्यन्तरेणति
For Private and Personal Use Only