________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४८
चरक-संहिता। [स्रोतसां बिमानम् विविधाशितपीतीये रसादीनां यदौषधम्। रसादिस्रोतसां कुर्यात् तद् यथास्वमुपक्रमम् ॥ मूत्रविट्स्वेदवाहानां चिकित्सा मौत्रकृच्छिकी। तथातिसारिकी कार्या तथा ज्वरचिकित्सिकी॥८॥
तत्र श्लोकाः। त्रयोदशानां मूलानि स्रोतसां दुष्टिलक्षणम् । सामान्य नामपर्यायाः कोपनानि परस्परम् ॥ दोषहेतुः पृथकत्वेन भेषजोदेश एव च। स्रोतोविमाने निर्दिष्टं तथा चादौ विनिश्चयः॥
तेषां दुष्टिप्रतिक्रियासूत्राण्याह-प्राणोदकेत्यादि। श्वासिकी श्वासरोगे विहिता या क्रिया सा कार्या। तथा तृष्णारोगोपशमनी या क्रिया विहिता तत्राध्याये सा कार्या। आमप्रदोषिकी विमुचिकालसकयोविहिता या च क्रिया सा च काय्येति प्राणोदकानवहस्रोतोदुष्टिप्रतिक्रिया बोध्या। विविधाशितपीतीयेऽध्याये यद्रसादीनामौषधमुक्तं रसादिवहस्रोतसामपि तदौषधं तश्च यथास्वमुपक्रमं कुर्यात्। आदिपदेनात्र रक्तमांसमेदोऽस्थिमज्जशुक्राणां ग्रहणम् । मौत्रकृच्छिकी मूत्रकृच्छाध्यायोक्ता क्रिया या, या चातिसारिकी अतीसाररोगे विहिता, तथा या क्रिया ज्वरचिकित्सिकी ज्वररोगे विहिता सा सा क्रिया मूत्रविस्वेदवहानां दुष्टौ कार्येत्यर्थः। वातादिवहस्रोतोदुष्टिप्रतिक्रिया तु निखिलेन तन्त्रेण वाच्या ॥८॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्रेत्यादि। त्रयोदशानां प्राणो
इत्यादिना चिकित्सामाह -- प्राणवहानां श्वासिकी, उदकवहानां सृष्णोपशमनी, अन्नवहानामाम. प्रदोषिकी इति बोद्वव्यम्। मूत्रादिवहानामपि त्रयाणां मूत्रकृच्छ्रादयो यथासंख्यं तिस्रश्चिकित्सा ज्ञेयाः ॥ ८॥
चक्रपाणिः-संग्रहे दृष्टिलक्षणं सामान्यं वाताधविशेषितं दृष्टिलक्षणमित्यर्थः । स्रोतोदृष्टिलक्षणानीह वातादिदोपभेदेन नोक्तानीत्यर्थः। वातादिविशेषेण चेह विस्तरभयाद दृष्टि!क्ता ; तेन वातादिविशेषलिङ्गाधिक्यात् दृष्टिनिर्गतष्या। आदौ विनिश्चय इत्यध्यायादौ पुरुषस्य धमनी
For Private and Personal Use Only