SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५म अध्यायः विमानस्थानम् । १४६७ आहारश्च विहारश्च यः स्याद् दोषगुणैः समः। तुभि-8-विगुणश्चापि स्रोतसां स प्रदूषकः॥६॥ अतिप्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयोऽपि वा। विमार्गगमनञ्चापि स्रोतसां दुष्टिलक्षणम् ॥ ७ ॥ खधातुसमवर्णानि वृत्तस्थूलान्यणूनि च । स्रोतांसि दीर्घाण्याकूत्या प्रतानसशानि च॥ . प्राणोदकान्नवाहानां दुष्टानां श्वासिक्री क्रिया। कार्या तृष्णोपशमनी तथैवामप्रदोषिकी ॥ सेवनात्। दोपगुणैर्वातादीनां रुक्षादिभिर्गुणः। ऋतुभिर्विगुणश्चाहारो विहारश्च यस्मिन्नृतौ यद्विहितं तद्विपरीत आहारश्च विहारश्च ऋतुभिर्विगुणः स्यात् । स्रोतसामिति दोपवहाणां स आहारो विहारश्च ॥६॥ गङ्गाधरः-दोपस्रोतोदुष्टिलक्षणमाह--अतीत्यादि। सिराणामतिप्रवृत्ति सिराणां सङ्गो वा सिराणां ग्रन्थयोऽपि वा सिराणां विमार्गगमनश्चापि । स्रोतसां वातादिदोषवहस्रोतसाम् ॥७॥ ___ गङ्गाधरः-अथ स्रोतसामाकारमाह-वधाखित्यादि। यानि स्रोतांसि यं धातु वहन्ति स धातुस्तेषां स्रोतसां स्वधातुस्तस्य धातोर्योवर्णस्तत्समवर्णानि तद्धातुवहानि तानि स्रोतांसि । वृत्तानि च तानि स्थूलानि चेति वृत्तस्थूलानि । अणूनि च वृत्तसूक्ष्माणि च । दीर्घाणि लम्बानि । लतानां प्रतानं अग्रलता तत् सदृशानि। स्रोतसां प्राणादिवहानां प्रकारमूलप्रकोपप्रकोपणाकारानुक्त्वा आहारश्चेत्यादिना सामान्येन सर्वस्रोतोदृष्टिमाह। दोषगुणैः सम इत्यनेन दोषातिवर्द्धकं दर्शयति । क्षीणाश्च दोषा नान्यदृष्टिं कुर्वन्ति, किन्तु स्वयमेव क्षीणलिङ्गा भवन्ति इत्यादि वेदितव्यमेव । धातुभिर्विगुण इति धातुविगुणस्वभाव इत्यर्थः न तु विपरीतगुणो धातुविगुणः। दिवास्वप्नमेध्यादयो हि मेदसा सामान्यगुणा एव मेदोदूषका एवोक्ताः ॥ ६॥ ___ चक्रपाणिः-अतिप्रवृत्तिरित्यादिना सामान्यस्रोतोदृष्टिलक्षणमाह। अतिप्रवृत्तिरिह स्रोतोबाह्यस्य रसायद्रिव्या। एवं सङ्गोऽपि रसादेविमार्गगमनञ्च, यथा- भूत्रवहाणां स्रोतसां वस्तिः मूलमित्यादौ ॥ ७॥ चक्रपाणिः-स्वधातुसमवर्णानीति वाह्यधातुतुल्यवर्णानि । प्रतानो लताप्रपञ्चः। प्राणोदक * धातुभिरिति चक्रसम्मतः पाठः । १८८ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy