________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६६
चरक-संहिता। स्रोतसां विमान अभिष्यन्दीनि भोज्यानि स्थूलानि च गुरूणि च । मांसवाहीनि दुष्यन्ति भुक्त्वा च स्वतां दिवा ॥ अव्यायामादिवास्वप्नान्मध्यानाञ्चातिसेवनात् । मेदोवाहीनि दुष्यन्ति वारुण्याश्चातिसेवनात् ॥ व्यायामादतिसंक्षोभादस्थ्नामतिविघटनात् । अस्थिवाहीनि दुष्यन्ति वातलानाञ्च सेवनात् ।। उत्पेषादत्यभिष्यन्दादभिघातात् प्रपीड़नात् । मज्जवाहीनि दुष्यन्ति विरुद्धानाञ्च सेवनात् ॥ अकालयोनिगमनान्निग्रहादतिमैथुनात् । शुक्रवाहीणि दुष्यन्ति शस्त्रक्षाराग्निभिस्तथा ॥ मूत्रितोदकभक्ष्यस्त्री-सेवनान्मूत्रनिग्रहात् । मूत्रवाहीणि दुष्यन्ति क्षीणस्यातिकशस्य च ॥ विधारणादत्यशनादजीर्णाध्यशनात् तथा। बच्चोंवाहीनि दुष्यन्ति दुर्बलाग्नेः कृशस्य च ॥ व्यायामादतिसंक्षोभाच्छीतोष्णाक्रमसेवनात् ।
स्वेदवाहीनि दुष्यन्ति क्रोधशोकभयैस्तथा ॥ तस्य यजःपुरुषीयोक्तस्य। मांसवहस्रोतःप्रकोपनिदाने स्थूलानि संहतानि लड्डुकादीनि । मेदोवहस्रोतःप्रकोपनिदाने मेध्यानां स्निग्धखात् । अकालयोनिगमनादिति रजस्वलागमनात् । निग्रहादिति शुक्रवेगनिग्रहात्। मृत्रितस्य मृत्रवेगवतः उदकभक्ष्यस्त्रीणां सेवनात्। विधारणादिति वचौवेगविधारणात् । दुर्बलोऽग्निर्यस्य तस्य तथा। शीतोष्णाक्रमसेवनादिति अक्रमेण शीतोष्णशेषः। गुरूणि च भजतामिति पूर्वोक्तेन सम्बन्धः। मेध्यानां मेदुराणाम् । अकालयोनिगमनादिति अहर्षकालगमनात् तथाऽनुचितयोनौ गमनात्। निग्रहादिति शुक्रवेगनिनहात् । मूत्रितेत्यादौ मूत्रवेगयुक्तस्य उदकादिसेवनादिति शेयम् । • अभिक्षतस्य चेति चक्रवतः पाठः ।
For Private and Personal Use Only