________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः |
विमानस्थानम् ।
१४६५
सर्वेषामेव वातपित्तश्लेष्मारणो दूषयितारो भवन्ति दोष
स्वभावादिति ॥ ५ ॥
भवन्ति चात्र ।
क्षयात् सन्धारणाद् रौच्याद् व्यायामात् चुधितस्य च । प्राणवाहीनि दुष्यन्ति स्रोतांस्यन्यैश्च दारुणैः ॥ श्रौष्ण्यादामाद्भयात् पानादतिशुष्कान्नसेवनात् । अम्बुवाहीनि दुष्यन्ति तृष्णायाश्चातिपीड़नात् ॥ अतिमात्रस्य चाकाले चाहितस्य च भोजनात् ।
नवीन दुष्यन्ति वैगुण्यात् पावकस्य च ॥ गुरुशीतमतिस्निग्धमतिमात्रं समश्नताम् । रसवाहीनि दुष्यन्ति चिन्त्यानाञ्चातिचिन्तनात् ॥ विदाहीन्यन्नपानानि स्निग्धोष्णानि द्रवाणि च । रक्तवाहीनि दुष्यन्ति भजताञ्चातपानलौ ॥
स्रोतांसि । ( ननु कस्कस्तेषां दूषयिता ) । तेषामित्यादि । प्रदुष्टवातपित्तश्लेष्माणः तु तेषां स्रोतसां धातूनाञ्च सव्वेषामेव दूषयितारो भवन्ति, न तु सोतांसि धातूनां न वा धातवः स्रोतसामिति । कस्मादित्यत आह-दोषस्वभावात् इतीति ॥ ५ ॥
गङ्गाधरः- अथैषां दूषणे प्रकोप निदानान्याह - भवन्तीत्यादि । अन्यैश्व दारुणैर्वा तवर्द्धनैरित्यर्थः । औष्ण्यादित्यादि । अम्बुवहस्रोतः कोप निदानम् । तत्र आममपक ं भुक्तम्। अतिमात्रस्य भोजनात् अकाले च मात्रावद्भोजनात्। अहि
धातवश्च दुष्टाः प्रत्यासन्नानि स्रोतांसि धात्वन्तराणि च स्वदोषसंक्रान्त्या दूषयन्तीत्यर्थः । दोषस्वभावादिति दोषाणामेवायं स्वभावो यद् दूषकत्वं न धात्वन्तराणाम् । तेन, धातुना दुष्टिर्धातुदुष्टिधतुगतदोषकृतैव ज्ञेया ॥ ५ ॥
चक्रपाणिः - यथाक्रम स्रोतसां दृष्टिकारणमाह- क्षयादित्यादि । दारुणैरित्यत्र कर्मभिरिति
For Private and Personal Use Only