________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६४ चरक-संहिता।
स्रोतसां विमानम् स्रोतांसि सिरा धमन्यो रसायन्यो रसवाहिन्यो नाड्यः पन्थानो मार्गाः शरीरच्छिद्राणि संवृतासंवृतानि स्थानान्याशयाः क्षया निकेताश्चेति शरीरधात्ववकाशानां लक्ष्यालक्ष्याणां नामानि भवन्ति । तेषां प्रकोपात् स्थानस्थाश्चैव मार्गगाश्च शरीरधातवः प्रकोपमापद्यन्ते इतरेषाञ्च प्रकोपादितराणि च। स्रोतांसि च स्रोतांस्येव धातवश्च सर्वधातूनेव प्रदूषयन्ति च प्रदुष्टाः। तेषां उपविशन्तं विडू विसृजन्तम् । स्वेदैत्यादि। मेदो लोमकूपाश्च स्वेदवहानां मूलम् । प्रकोपलक्षणं स्पष्टम्। अस्वेदमित्यादि ॥४॥
गङ्गाधरः- वातादीनां स्रोतोमूलानि न सन्ति सर्वशरीरचरखात् उक्तानि वा। वायोः पक्काशयः पित्तस्यामाशयः कफस्य हृदयं स्थानं तदेव तद्वहस्रोतसां मूलं प्रदोषलक्षणानि च तेषां प्रकोपलक्षणानीत्यतस्तानि नोक्त्वा स्रोतसां पर्यायानाह- स्रोतांसीत्यादि। रसादिकखात् सर्वेषां रसायनीति रसावाहिनीति च संज्ञा संतासंदृतेत्येकं नाम। शरीरधाखवकाशानां शरीरधातूनां प्राणादीनां चलनार्थमवकाशा आकाशाश्छिद्राणि च तेषां तथा। लक्ष्यालक्ष्याणामिति केचिद्धाखवकाशा लक्ष्यन्ते केचिन लत्यन्ते इति लक्ष्यालक्ष्यास्तेषां तथा। नन्वेषां स्रोतसां प्रकोपात् किं स्यादित्यत आह-तेषामित्यादि। स्थानस्थाः स्वमानस्था मार्गगाः स्वस्रोतोगा अपि शरीरधातवः प्राणादयो रसादयश्च। इतरेषां प्राणाधन्यतमस्य स्रोतसां प्रकोपात् तदितरेषां स्रोतोसि प्रकुप्यन्ति । स्रोतांसि प्रकुपितानि स्रोतांस्येवान्यवहानि प्रदूषयन्ति, न तु तद्वाह्यान धातून। धातवश्व प्रकुपिताः सर्वधातूनेव दूषयन्ति न खन्यधातुवहानि अस्वेदनादिकं स्वेदवहदृष्टिलक्षणं कुष्टपूर्वरूपेऽप्यस्ति। तेन, यत्रान्यकुष्ठपूर्ध्वरूपदर्शनं भवति, तत्र कुष्टपूर्वरूपता निश्चेतव्या, एतावन्मात्रलक्षणोदये तु स्वेदवहधमनीनाम् । इह मूलज्ञानं यद्यपि साक्षात्प्रयोजनं नोक्तं, तथापि मूलोपघाताद वृक्षाणामिव धमनीनां महानुपघातो भवतीति ज्ञेयम्, अत एव सुश्रुते स्रोतोमूलविद्धलक्षणान्युक्तानि ॥ ४॥
चक्रपाणिः- स्रोतसां पर्यायानाह– स्रोतांसीत्यादि। संवृतासंवृतानीत्येका संज्ञा, तत्राने संवृतानि, मूलेऽसंवृतानि। 'स्थानानि' पर्यायान् केचिद्धमनीमूलस्य पर्यायानाचक्षते। अन्ये तु एतानपि धमनीपर्यायानाहुः, धमन्योऽपि हि रसादिस्थानं भवन्त्येवेति कृत्वा। स्थानस्था इति आशयस्थाः। मार्गगाश्चैवेति धमनीभिर्गच्छन्तः, इतरेषाम्चेत्यादिना विवृणोति। स्रोतांसि
For Private and Personal Use Only