SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - म मध्यायः । विमानस्थानम्। १४६३ __ मूत्रवहाणां स्रोतसां वस्तिर्मूलं वक्षणौ च। प्रदुष्टानान्तु खल्वेषामिदं विशेषविज्ञानं भवति ; तद् यथा-अतिसृष्टं प्रतिबद्धं वा कुपितमल्पाल्पमभीषणं वा बहलं सशूलं मूत्रयन्तं दृष्टा मूत्रवहाण्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् । पुरीषवहाणांस्रोतसां पक्वाशयो मूलं स्थूलगुदश्च।प्रदुष्टानान्तु खल्वेषामिदं विशेषविज्ञानं भवति; तद् यथा-कृच्छणाल्याल्पं सशब्दशलमतिद्रवमतिग्रथितमतिबहु चोपविशन्तं दृष्ट्रा पुरीष. वहाण्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् । ___ स्वेदवहानां स्रोतसां मेदो मूलं लोमकूपाश्च । प्रदुष्टानान्तु खल्वेषामिदं विशेषविज्ञानं भवति ; तद यथा—अस्वेदमतिस्वेदनं वा पारुष्यमतिश्लक्ष्णतामङ्गस्य परिदाह लोमहर्षश्च दृष्टा स्वेदवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् ॥४॥ विज्ञानानि विविधाशितपीतीयोक्तानि । क्रमिकखान्मूत्रवहाणि व्याख्यायन्तेमूत्रेत्यादि। वस्तिर्वश्रणौ च मूलं प्रकोपविज्ञानमतिसृष्टमित्यादि। सर्च मूत्रणक्रियाविशेषणम्। पुरीषेत्यादि स्पष्टम् । पक्काशयो नाभेरधः स्थूलगुदं त्रिबलिरूपम्। प्रकोपविशाने अल्पाल्पमित्यादि उपवेशक्रियाविशेषणम् । "भतिसृष्टं वा अतिबद्धं वा" इति विकल्पेन बोद्धव्यम्, अतिसृष्टातिबद्ध योरेकनासम्भवात् । भल्पाल्पं वा तथाभीक्ष्णं वेति विकल्पः। क्लोम हृदयस्थपिपासास्थानम् । वपावहनं, वपा उदरस्था स्निग्धवर्तिका यामाहुर्जनाः “तैलवर्त्तिका" इति । सुश्रुते तु “मेदोवहानां मूलं वुक्की कटी च" इत्युतम् । सदप्राप्तीन्द्रियार्थदर्शिगम्ये नास्मद्विधानां बुद्धयः प्रभवन्ति । अस्थ्यपि द्रवरूपमस्त्येव स्रोतोवायम् इति कृत्वा 'अस्थिवहानाम्' इत्युक्तम् । यद्यपि विविधाशितपीतीये रसादीनां दृष्टिलक्षणमुकं न रसादिस्रोतसाम्, तथापि रसादिदृष्टया रसादिवहधमनीनामपि दुष्टः साधारणत्वेनोक्तं-"रसादिस्रोतसां विज्ञानान्युक्तानि" इति। ये तु ब्रवते--रसादिष्टिरभिन्नैव तद्वहधमनीष्टेरिति, तेषां मते, पृथग्धमनीदृष्टया धातुष्टिं वक्ष्यति "तेषां प्रकोपात् स्थानस्थाश्चैव" इत्यादिना ; तदनुपपत्रम्, धमनीदृष्टया तु तद्वाह्यदुष्टिरवश्यं भवतीति कृत्वा धातुष्टिलक्षणैरेव इह धमनीष्टिहक्का, भातुष्टयनतिरिक्तन्तु धमनीष्टिलक्षणम् “अतिप्रवृत्तिः" इत्यादिनात्रैव वक्ष्यति । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy