________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६२
चरक-संहिता। स्रोतसां विमानम् खल्वेषामिदं विशेषविज्ञानं भवति ; तद् यथा-जिह्वाताल्वोष्ठकण्ठक्लोमशोषं पिपासाञ्चातिप्रवृद्धां दृष्टा भिषगुदकवहान्यस्य स्रोतांति प्रदुष्टानीति विद्यात् । ___ अन्नवहानां स्रोतसामामाशयो मूलं वामञ्च पार्श्वम्। प्रदुष्टानान्तु खल्वेषामिदं विशेषविज्ञानं भवति ; तद् यथाअनन्नाभिलषणमरोचकाविपाको च्छर्दिश्च दृष्टान्नवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् ।
रसवहानां स्रोतसां हृदयं मूलं दशधमन्यश्च।शोणितवहानां स्रोतसां यकून्मूलं प्लीहा च। मांसवहानां स्रोतसां स्नायुर्मुलं त्वक् च । मेदोवहानां स्रोतसां बुको मूलं वपावहनश्च। अस्थिवहानां स्रोतसां मेदो मूलं जघनश्च ।मज्जवहानां स्रोतसामस्थीनि मूलं सन्धयश्च। शुक्रवहाणां स्रोतसां वृषणौ मूलं शेफश्च । प्रदुष्टानान्तु खल्वेषां रसादिवहस्रोतसां विज्ञानान्युक्तानि विविधाशीतपीतीये। यान्येव हि धातूनां प्रदोषविज्ञानानि, तान्येव हि यथास्वं दुष्टानां धातुस्रोतसाम् ।
ञ्चेत्यादि। जिहे त्यादि स्पष्टम् । क्रमवादन्नवहानां व्याख्यानमाह-अन्नवहानामित्यादि। आमाशयो वामपाश्र्वश्च मूलमित्यर्थः। प्रकोपविज्ञानव्याख्यानन्तु स्पष्टम्। क्रमिकलाद्रसवहानि व्याख्यायन्ते। रसवहानाम् इत्यादि। हृदयं हृदयमूला दश धमन्यश्च मूलमिति यकृत् प्लीहा च मूलम् । वायुस्खक् च मूलम् । बुक्को अग्रमांसद्वयं वपावहनं वसावहनं मूलम् । मेदो जघनश्च मूलम् । अस्थीनि सन्धयश्वास्थिवहानां मूलम् । वृषणावण्डकोषो शेफः शिश्नश्चेति मूलम् शेफ इति पुरुषाभिप्रायेण पुसः शुक्रधानखात् । प्रकोपविज्ञानान्येषामाह-प्रदुष्टानामित्यादि। विविधाशितपीतीयोक्तलिङ्गतोऽधिकानि लिङ्गान्यस्य प्रकोपस्याह-यान्येव हीत्यादि। धातूनां प्रदोष
For Private and Personal Use Only