________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः विमानस्थानम्।
१४६१ दीनां केवलं चेतनावच्छरीरमयनभूतमधिष्ठानभूतञ्च । तदेतत् स्रोतसां प्रकृतिभूतत्वात् न विकारैरुपसृज्यते शरीरम् ॥३॥ ___ तत्र प्राणवहानां स्रोतसां हृदयं मूलं महास्रोतश्च । प्रदुष्टानान्तु खल्वेषामिदं विशेषविज्ञानं भवति ; तद् यथा-अतिसृष्टं प्रतिबद्धं प्रकुपितमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्रसन्तं दृष्टा प्राणवहानि स्रोतांस्यस्य प्रदुष्टानीति विद्यात् ।
उदकवहानाञ्च स्रोतसां तालु मूलं क्लोम च। प्रदुष्टानाञ्च दीनां मन आत्मश्रोत्रस्पर्शननयनरसनघ्राणबुद्धाहङ्कारादीनां केवलं चेतनावत् सजीवं शरीरस्रोतः अयनभूतमधिष्ठानभूतश्च। तदेतत् स्रोतसां तेषां प्राणादिवहानाम् एषां सरवादीनामतीन्द्रियाणामभिवाहिस्रोतसां प्रकृतिभूतवाद्विकाराभावादिदं शरीरं विकारैर्वेपम्यैनौपसृज्यते । एतेन प्राणादिसत्त्वादिवहस्रोतसां विकृतिभूतखे शरीरं विकारैरुपसृज्यत इति ख्यापितम्। इति प्रकारव्याख्यानम् ॥३॥
गङ्गाधरः-मूलतो व्याख्यायते--तत्रेत्यादि। तत्र प्राणादिवहेषु स्रोतःसु मध्ये हृदयं वक्षः, महास्रोतश्च महासरणं महाच्छिद्रमित्यर्थः। प्राणवहानां स्रोतसां प्रकोपविज्ञानतस्तु व्याख्यानं करोति। प्रदुष्टानान्वित्यादि। एषां प्राणादिवहानाम्। तद यथेत्यादि। अतिसृष्टमित्यादि। सर्वमुच्छासक्रियाविशेषणम् । यः पुमानति आयत्या दीर्घमुच्छ्रसिति किंवा प्रतिबद्धमुच्छ्रसिति अथवा प्रकुपितं दृद्धमुच्छ्रसिति किंवा अल्पाल्पमुच्छ सिति किंवा अभीक्ष्णमुच्छसिति किंवा सशब्दशूलमुच्छसिति तादृशमुच्छ्रसन्तं पुरुषं दृष्ट्वा अस्य पुरुषस्य प्राणवहानि स्रोतांसि प्रदुष्टानीति विद्यात् अनुमीयेत । क्रमिकलादुदकवहस्रोतांसि मूलतश्च प्रकोपविज्ञानतश्च व्याख्यायन्ते । उदकवहानाञ्चेत्यादि । मूले तालु कोम च । क्लम कण्ठोरसोः सन्धिः। तेषां प्रकोपविज्ञानमाह-प्रदुष्टानानाम् इत्यर्थः। तद्वदित्यादि। चेतनावच्छरीरमित्यनेनाचेतनकेशनखादिप्रदेशं सत्त्वादिगमने निषेधयति, दोषास्तु तत्रापि यान्तीति । अयनभूतमिति मार्गभूतम्। अधिष्ठानभूतमिति स्थानरूपम् ॥३॥ - चक्रपाणिः-प्राणवहानामिति प्राणसंज्ञकवातवहानाम् । एतच्च प्राणाख्यविशिष्टस्य वायोः विशिष्टस्रोतः। सामान्येन तु वायोः सर्वा एव धमन्य इति न विरोधः । मूलमिति प्रभवस्थानम् ।
For Private and Personal Use Only