SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४६० चरक संहिता। स्रोतसां विमानम् ____ अतिबहुत्वात् तु खलु केचिदपरिसंख्येयान्याचक्षते स्रोतांसि परिसंख्येयानीत्यन्ये । तेषान्तु खलु स्रोतसां यथास्थूलं कतिचित् प्रकारान् मूलतश्च प्रकोपविज्ञानतश्चानुव्याख्यास्यामः, ये भविष्यन्त्यलमनुक्तज्ञानाय ज्ञानवतां विज्ञानाय चाज्ञानवताम् । तद्यथा—प्राणोदकान्नरसरुधिर-मांसमेदोऽस्थिमज्ज-शुक्रमूत्रपुरीषस्वेदवहानि। वातपित्तश्लेष्मणां पुनः सर्वशरीरचराणां सर्वाणि स्रोतांस्ययनभूतानि। तत्तदतीन्द्रियाणां पुनः सत्त्वा स्रोतोभ्योऽन्यत् न तु स्रोतांस्येव तस्मात् न स्रोतःसमुदाय एव पुरुष इत्यर्थः ॥२॥ गङ्गाधरः-मतान्तरमाह-अतिबहुतात् खित्यादि। मतान्तरमाह-परिसंख्येयानीत्यादि । तन्मतद्वयमप्रतिषिद्धखादनुमतम् का स्न्यादपरिसंख्येयानि स्थूलतः परिसङ्खये यानि इत्यभिप्रायात्। कतिचिदेव न तु सन्।ि ननु के प्रकारा व्याख्यास्यन्ते इत्यत आह-तेषान्वित्यादि। स्रोतसां ये प्रकारा ज्ञानवतामनुक्तज्ञानाय पुनर्शानाय अज्ञानवतां स्रोतसां प्रकारा ज्ञानवतां विज्ञानाय चालं समर्था भवन्ति तान् कतिचित् तेषां स्रोतसां प्रकारान् यथास्थूलं तथा मूलतश्च तत्प्रकोपविज्ञानतश्चानुव्याख्यास्याम इत्यर्थः । तदाख्यायते। तद् यथेत्यादि । प्राणोदकादिकानामसर्वशरीरचराणां वहानि सर्वस्रोतांसि अयनभूतानि सच्छिद्राणि पथिरूपखात् तथा सर्वशरीरचराणां वातपित्तश्लेष्मणां वहानि सर्वस्रोतांसि चायनभूतानि सच्छिद्राणि वर्त्मरूपखात्। न खधिष्ठानादिभूतानि । तत्तदतीन्द्रियाणामिन्द्रियागोचराणान्तु सत्त्वा यच्च पुष्यन्तीत्यर्थः, यत्र चावस्थितानीति यत्र मांसादौ सम्बद्धानीत्यर्थः, तत् सर्च धमनीभ्योऽन्यत्। तस्मान स्रोतोरूप एव पुरुष इत्यर्थः ॥ २॥ चक्रपाणिः-प्रकोपविज्ञानतश्चेति यथा स्रोतसां प्रकोपो विज्ञायते तथा व्याख्यास्याम इति योजना। अनुक्तार्थज्ञानायेत्यनुक्तस्रोतोज्ञानाय। ज्ञानवतामित्यनुत्तार्थज्ञानसमर्थानाम् । ज्ञानवन्तो ह्यनुक्तमपि स्रोतोऽनुमीमते । विज्ञानाय चाज्ञानवतामिति यथोक्तमानज्ञानाय च मन्दबुद्धी For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy