________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम अध्यायः
म अध्यायः विमानस्थानम्। १४८६ अपि चैके महर्षयः स्रोतसामेव समुदयं पुरुषमिच्छन्ति सर्वगतत्वात् सर्वसरत्वाच्च दोषप्रकोपणप्रशमनानाम्।न त्वेतदेवम् । यस्य च हि स्रोतांसि यच्च वहन्ति यथा वहन्ति यत्र चावस्थितानि सव्वं तदन्यत् तेभ्यः ॥२॥
अत्र मतभेदं दर्शयति—अपीत्यादि। एके मुनयः। स्रोतसामेव समुदायं पुरुषमिच्छन्ति दोषप्रकोपणप्रशमनानामाहारपरिणामेन रसरूपाणां सर्वगतखात् सर्वशरीरगतखात्, सर्वसरखाच दोषप्रकोपणप्रशमनानामित्यन्वयः। रसादिसबंधातूपधातुमलधातुदुष्टिकराणां दोषाणां सव्वदेहसरणात् । आत्ममनोवहान्यपि स्रोतांसि सन्तीति स्रोतःसमुदायात्मकः पुरुष इति भावः। मतमेतद् दृषयति-न खेतदेवमित्यादि। एतदिति पुरुषलक्षणमेवं स्रोतसामेव समुदायः पुरुष इति न तु। कस्मादित्यत आह-यस्येत्यादि। हि यस्मात् यस्य च मूर्तिमतो भावस्य स्रोतांसि यानि यच्च वहन्ति तद् यथा वहन्ति तत्प्रकारः यत्र चावस्थितानि तच्च स्थानं तदेतत् सर्वं तेभ्यः
अभिवाहीनि भवन्ति । एवं मन्यते-रक्तस्य वृद्धिः शोणितरूपतया परिणमता रसेन मिलितेन कर्तव्या। स च स्थानान्तरस्थस्य रसस्य रुधिरेण समं मेलको न गमनमार्ग स्रोतःसंज्ञकमन्तरा भवति। एवं तावदभिनिर्वृत्तिः स्रोतःकारणिको धातूनां प्रायो रक्तस्योत्तरधातुपोषकभागपरिणामो भवति। तचाप्युत्तरधातुपोषणं नान्तरेण स्रोतो भवति। यश्च रक्त न्यायः, स सर्वत्र शारीरे भावे । न चान्यस्रोतसा धान्यधातुपुष्टिः सम्भवति, सर्वपोष्याणां भिन्नदेशत्वात्। न ह्यभिन्नेन स्रोतसा भिन्नदेशवृक्षयोः सेचनमस्ति । मनस्तु यद्यपि नित्यत्वेन न पोष्यं, तथापि तस्येन्द्रियप्रदेशगमनार्थ स्रोतोऽस्त्येव। तच्च मनःप्रभृतीनामतीन्द्रियाणां कृत्स्नमेव शरीरं स्रोतोरूपं वक्ष्यति। दोषाणान्तु सर्वशरीरचरत्वेन यथास्थूलस्रोतोऽभिधानेऽपि सर्वस्रोतांस्येव गमनार्थ वक्ष्यन्ते । सूक्ष्मजिज्ञासायान्तु वातादीनामपि प्रधानभूताः धमन्यः सन्त्येव । यदुक्तं सुश्रुते-"तासां वातवाहिन्यो दश सिरा भवन्ति" इत्यादि। न च चरके सुश्रुत इव धमनीसिरा. स्रोतसां भेदो विवक्षितः।
सर्वगतत्वादिति स्रोतसां सर्वशरीरावयवगतत्वादित्यर्थः। सर्चसरस्वादियुत्तरेण सम्बध्यते। दोषप्रकोपणमपथ्यं दोषप्रशमनं वा पथ्यं सर्वस्मिन् शरीरप्रदेशे दोषरूपं सत् तथा भेषजरूपं सद् गच्छति। तेन सर्वत्र स्त्रोतो विद्यते। तेन स्रोतोमयः पुरुष इति पूर्वपक्षं निषेधयति-न वित्यादि । यस्य हि स्रोतांसि यद्घटितानीत्यर्थः, यच्च वहन्तीति
१८७
For Private and Personal Use Only