________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः। अथातः स्रोतसां विमानं व्याख्यास्यामः, इतिह
स्माह भगवानात्रेयः ॥ १॥ . . यावन्त एव पुरुषे मूर्तिमन्तो भावविशेषास्तावन्त एव अस्मिन् स्रोतसां प्रकारविशेषाः। सर्वभावा हि पुरुषे नान्तरेण स्रोतांस्यभिनिवर्तन्तै क्षयं वाप्यधिगच्छन्ति। स्रोतांसि खलु परिणाममापद्यमानानां धातूनामभिवाहीनि भवन्त्ययनार्थेन ।
गङ्गाधरः-अथ शारीरभावाणां मानविज्ञानार्थ स्रोतोविमानमाह-अथात इत्यादि ॥१॥
गङ्गाधरः-यावन्त इत्यादि मूर्तिमन्त इत्यनेन वातादिवहस्रोतसां प्रकारविशेषो नास्तीति ख्यापितं सव्वेषामेव हि स्रोतसां वाताकाशवहखात्। ननु कुतो यावन्तो मूर्तिमन्तो भाव विशेषाः पुरुषे तावन्तः प्रकारविशेषाः स्रोतसामस्मिन् पुरुष इत्यत आह-सर्वभावा हीत्यादि। पुरुषे हि यस्मात् स्रोतांसि अन्तरेण विना सर्वभावा मूर्तिमन्तः सर्वभावा रसरक्तादयः स्वेदादयः श्लेष्मपित्तपुरीषमूत्रादयश्च नाभिनिर्वत्तन्ते न वा क्षयमधिगच्छन्ति। ननु कुतो न सर्वभावाः पुरुष स्रोतांसि विनाभिनिवर्तन्ते न वा क्षयन्तीत्यत आह-स्रोतांसीत्यादि। धातूनामिति रसादीनाम् अयनार्थेन गमनहेतुना। आहारपरिणामरसो हि स्रोतसां छिद्ररूपं पन्थानं विना गन्तुन शनोति, न च स्रोत श्छिद्रपथेन गमनं विना तदुत्तरोत्तरधातुखेन परिणमति । उत्तरोत्तरधातवो हि विभिन्नरूपास्तस्मात्यावन्तो मूर्तिमन्तो भावाः पुरुषे तावन्तः स्रोतसामस्मिन् प्रकारविशेषा इति भावः।। . चक्रपाणिः-पूर्वस्मिन्नध्याये परीक्षामभिधाय तत्परीक्षणीयं शरीरं दुष्टादृष्टस्रोतोविभागेन धक्त स्रोतसां विमानमुच्यते ॥ १॥
चक्रपाणिः- मूर्तिमन्त इत्यसवंगतद्रव्यपरिमाणवन्तः, असर्वगतपरिमाणं हि मूर्तिरुच्यते । भावविशेषा इत्युत्पत्तिमन्तो विशेषाः। अत्र हेतुमाह-स्रोतांसीत्यादि। खलुशब्दो हेतौ । परिणाममापद्यमानाभामिति पूर्वपूर्वरसादिरूपतापरित्यागेनोत्तरोत्तरं रक्तादिरूपतामापद्यमानानाम् । अयनाथन' इतिवचनाम स्थिराणां धातूनामभिवाहीनि भवान्त स्रोतांसि, किन्तु देशान्तरमापणेम
For Private and Personal Use Only