SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्य अध्यायः विमानस्थानम्। १४८७ तत्र श्लोको। सर्वरोगविशेषाणां त्रिविध ज्ञानसंग्रहम् । यथा चोपदिशन्त्याप्ताः प्रत्यक्षं गृह्यते यथा ॥ ये यथा चानुमानेन ज्ञेयास्तांश्चाप्युदारधीः । भावांस्त्रिरोगविज्ञाने विमाने मुनिरक्तवान् ॥८॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने त्रिविधरोगविशेषविज्ञानीय विमानं नाम __चतुर्थोऽध्यायः ॥ ४॥ भानादेव जातम् इति तृतीयश्छेदः। अज्ञानजं फलमयशःप्रभृतिकं फल नाप्नोतीति भावार्थ व्याकरोति ज्ञानेत्यादि इति चतुर्थश्छेदः॥७॥ गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोकावित्यादि। त्रिविधमित्यारभ्य बुद्धिमन्त इत्यन्तेन सर्वरोगविशेषाणां त्रिविध ज्ञानसग्रहम् । रोग. मेकैकमित्यारभ्य शायते इत्यन्तेनाप्ता यथोपदिशन्ति तत्प्रकारम् । ततः प्रत्यक्षन्वित्यारभ्य परीक्षणमुक्तमित्यन्तेन यथा प्रत्यक्षं गृह्यते तत्प्रकारम्। इमे खित्यारभ्य चिकित्सतीत्यन्तेन ये यथानुमानेन शे यास्तान् भावान् उदारधीमुनिरात्रेयपुनर्वसुस्त्रिरोगविज्ञाने त्रिविधरोगविशेषविज्ञाने विमाने . उक्तवानित्यर्थः॥८॥ गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि । इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीयस्कन्धे विमानस्थानजल्पे त्रिविधरोगविशेषविज्ञानीयजल्पाख्या चतुर्थी शाखा ॥४॥ इति प्रतिपत्तावमूद इत्यर्थः। ज्ञानं शास्त्रं, तत्कृता बुद्धिर्ज्ञानबुद्धिः। आविशति बुदयावगाहत इत्यर्थः। अन्तरात्मानमिति वैद्यपक्षे अन्तःशरीरम् ॥ ८ ॥ .. इति चरकचतुरानन-श्रीमचक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान व्याख्यायो त्रिविधरोगविशेषविज्ञानीयं विमानं नाम चतुर्थोऽध्यायः ॥ ४ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy