________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ] निदानस्थानम् ।
१२०६ परिच्छदः शाश्वतिकः, अथ च निमित्तत एवोत्पत्तिरिति। तस्मान्निदानशब्देन कुपितवातादयो नोच्यन्ते। शास्त्रेऽस्मिन् वाह्यहेतोः पर्यायेण निदानशब्द उक्तः। एवमेषामसात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामानां निदानानां कानिचित् दोषान् वर्द्धयित्रा ज्वरादीन् जनयन्ति कानिचित् कारणान्तरतः सञ्चितान् दोषान् व्यञ्जयन्ति विकारान् जनयन्ति। दोषप्रकोपपूर्वकज्वरादिव्याधिहेतून् प्रतिरोगाध्याये वक्ष्यति। हेमन्ते सश्चितं श्लेष्माणं घृतमिव सूर्यसन्तापो विलयन् कफरोगं जनयति । तदुक्तं-हेमन्ते निचितः श्लेष्मा वसन्ते कफरोगकृदिति । सुश्रुते च वातादीनां चयप्रकोपादिहेतुरुक्तः एकविंशतितमेऽध्याये । तद्यथा-प्राक्सश्चितहेतुरुक्त इति ऋतुभेदेन । तत्र सश्चितदोषाणां स्तब्धपूर्णकोष्ठता पीतावभासता मन्दोष्मता चाङ्गानां गौरवमालस्यं चयकारणविशेषश्चेति लिङ्गानि भवन्ति। तत्र प्रथमः क्रियाकाल इति। एष प्राकृतचय ऋतुस्वभावादेव भवति। समयोगयुक्तानामपि । एवं सश्चिते दोषे पूवं प्रज्ञापराधकृतकम्मे फलेनाधम्मविशेषेण काले परिणमता फलोन्मुखीभूतेनाधिष्ठितः । तत्प्रतिकारं न करोति, करोति पुनः प्रज्ञापराधादहितसेवनम् । रोगसामान्यकारणं विशेषरोगकारण वा सेवते। तत्र वातसामान्यकारणमुक्तं सुश्रुतेन। तद्यथा--अत ऊई प्रकोपणानि वक्ष्यामः । तत्र बलवद्विग्रहातिव्यायामव्यवायाध्ययनप्रपतनप्रधावनप्रपीड़नाभिघातलकनप्लवनतरण-रात्रिजागरण-भारहरण-गजतुरगरथपदातिचाकटुकषायतिक्तरुक्ष. लघुशीतवीर्य-शुष्कशाक-वल्लूरवरकोदालककोरदूष-श्यामाकनीवारमुद्गमसूराढकीहरेणुकलाय-निष्पावानशनविषमाशनाध्यशन-वातमूत्रपुरीषशुक्रच्छविक्षवथू. गारवाष्पवेगविघातादिभिर्विशेषैर्वायुः प्रकोपमापद्यते। स शीताभ्रप्रवातेषु घन्तेि च विशेषतः। प्रत्यूषस्यपराहे च जीणेऽन्ने च प्रकुष्यतीति। एतान्यासेवमानस्यादौ वायुः सञ्चीयते तत्र चोक्तानि लक्षणानि यश्च वा पूज्बेकम्मकृताधर्माविशेषणाधिष्ठितो वक्ष्यमाणानि वातज्वरादिकारणान्यासेवते तस्य चादौ वायुः सश्चीयते। तस्य चोक्तानि लक्षणानि भवन्ति न विशेषापरलक्षणानि, तस्मादनुमीयतेऽस्य वातजो व्याधिभविष्यति, वातलाहारादिजातस्तब्धपूर्णकोष्ठतादिमत्वात् । एवमेव पूर्व प्रज्ञापराधकृतकर्मविशेषफलेनाधम्र्मविशेषेण दैवन्यपाश्रयप्रायश्चित्तबलिमङ्गलेत्यादिचिकित्सासाध्यत्धं प्रतीयते। रुद्रकोपभवत्वेन च ज्वरस्य महादेवप्रभवत्वं तथाग्नेयत्वं प्रतीयते। क्रोधो ह्याग्नेयः। तेन तन्मयो ज्वरोऽप्याग्नेयः। तथा च वचनम्-"उष्मा पित्ताहते नास्ति ज्वरो नास्त्युप्मणा विना। तस्मात् पित्तविरुद्धानि त्यजेत्
१५२
For Private and Personal Use Only