________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२१०
चरक-संहिता। - ज्वरनिदानम् काले परिणमता फलोन्मुखीभूतेनाधिष्ठितः प्राकसश्चितपित्तसञ्चयप्रतिकारं न करोति, करोति पुनः प्रज्ञापराधादहितसेवनम्, रोगसामान्यकारणं रोगविशेषकारणं वा सेवते । तत्र पित्तसामान्यकारणमुक्तं सुश्रुतेन । तदयथा-क्रोधशोकभयायासोपवास-विदग्ध-मैथुनोपगमनकदम्ल-लवण-तीक्ष्णोष्णलघुविदाहितिलतैलपिण्याककुलत्थ-सर्षपातसीहरितकशाक-गोधामत्स्याजाविकमांस-दधि-तक्र. कूच्चिकामस्तुसौवीरकसुराविकाराम्लफलकटरामभृतिभिः पित्तं प्रकोपमापद्यते । तदुष्णरुष्णकाले च मेघान्ते च विशेषतः । मध्याह्न चाद्धरात्रे च जीयंत्यन्ने च कुप्यति ॥ एतान्यासेवमानस्यादौ पित्तं सञ्चीयते, तत्र चोक्तानि स्तब्धपूर्णकोष्ठतादीनि लक्षणानि भवन्ति । यश्च वा पूर्वकर्मकृताधर्मविशेषेणाधिष्ठितो वक्ष्यमाणपित्तज्वरादीनां कारणमासेवते तस्य चादौ पित्तं सञ्चीयते, तत्राप्युक्तानि लक्षणानि भवन्ति न विशेषापरलक्षणानि ; तस्मादनुमीयतेऽस्य पित्तजो व्याधिर्भविष्यति, पित्तलाहारादिजातस्तब्ध पूर्णकोष्ठतादिमत्त्वात् । एवमेव पूर्व प्रज्ञापराधकृतकर्म विशेषफलेनाधर्मविशेषेण काले परिणमता फलोन्मुखीभूतेनाधिष्ठितः प्राक्सश्चितं श्लेष्माणं न प्रतिकुरुते, कुरुते पुनः प्रज्ञापराधादहितसेवनम्, रोगसामान्यकारणं रोगविशेषकारणं वा सेवते। तत्र कफसामान्यकारणमुक्तं सुश्रुतेन-दिवास्वप्नाव्यायामालस्यमधुरामललवणशीत-स्निग्ध-गुरु-पिच्छिलाभिष्यन्दि-हायनकयवकनैषधकेकटकमाप-महामाष-गोधूम तिलपिष्टविकृति दधिदुग्धशरापायसे क्षुविकारानूपौदकमांसवसाविस-मृणाल-कशेरुक शृङ्गाटक-मधुरवल्लीफल-समशनाध्यशनप्रभृतिभिः श्लेष्मा प्रकोपमापद्यते । स शीतैः शीतकाले च वसन्ते च विशेषतः। पूर्वाह्न च प्रदोषे च भुक्तमात्रे प्रकुप्यति इति ॥ एतान्यासेवमानस्यादौ श्लेष्मा सञ्चीयते तत्र चोक्तानि स्तब्धपूर्णकोष्ठतादीनि लक्षणानि भवन्ति। यश्च वा पूर्वकृताधर्मविशेषेण अधिष्ठितो वक्ष्यमाणकफज्वरादिकारणमासेवते तस्य चादौ श्लेष्मा सञ्चीयते। तत्राप्युक्तानि स्तब्धतादीनि लक्षणानि भवन्ति न विशेषापरलक्षणानि । तस्मादनुमीयतेऽस्य श्लेष्मजो व्याधिभविष्यति, श्लेष्मलाहारादिजातस्तब्धकोष्ठतादिमत्त्वात् । एवं सश्चितवातादिदहस्य पुनः प्रापराधात् पित्तप्रकोपणैः सेव्यमानैश्चाभीक्ष्णमेव द्रवद्रव्यस्निग्धगुरुभिश्वाहारैदिवास्वप्नक्रोधानलातपश्रमाभिघाताजीर्णविरुद्धाध्यशनादिभिरसक प्रकोपमापद्यते। पित्ताधिकेऽधिकम् ॥ इति । वातादिजन्यत्वज्ञानेन च वातादिविपरीतभेषजसाध्यत्वं तथानुभूतवातादिविकारान्तरसम्बन्धोऽपि भावी कल्प्यते। भसात्म्यहेतुसेवोपदर्शकेन च भावी व्याधिः
For Private and Personal Use Only