________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०८ चरक-संहिता।
ज्वरनिदानम् तदारम्भकमृदादि द्रव्यं द्रव्यार्थकरं द्रव्यं न तु नवद्रव्यान्तर्गतं द्रव्यम् । तस्मात् असात्म्येन्द्रियार्थसंयोगादित्रिविधनिदानातिरिक्तं निदानं नास्तीति । यच सेतिकर्तव्यताको व्याध्युत्पत्तिहेतुर्निदानमित्युक्त्वा त्रिविधेष्वसात्म्येन्द्रियार्थसंयोगादिषु द्रव्यभूतेषु यथा समन्वेति, तथा वातादिषु च विषमेषु समन्वेति । हेतुश्च वाह्य आभ्यन्तरश्चेति द्विविधः । वाह्यस्त्रिविधः, आभ्यन्तरास्तु दोषदृष्या इति व्याख्याय दोषाणामितिकत्र्तव्यतायाश्च इतिकर्तव्यतान्तरभावान्न निदानवं किन्तु सम्प्राप्तिसमिति सुश्रुतेन वातादीनां निदानवमुक्तम् । तदयथा-सर्वेषाञ्च व्याधीनां वातपित्तश्लेष्माण एव मूलं तल्लिङ्गलाद दृष्टफलखादागमाच्चेति व्याचष्टे, तन्न सङ्गतम् ; अद्रव्यभूतेष्वसात्म्येन्द्रियार्थादिष्वत्युग्रशब्दादिषु परुषवागादिषु लक्षणस्याप्रसङ्गात् सेतिकर्तव्यताकखाभावात् द्रव्यभूतानामितिकर्तव्यतास्वप्रसङ्गाच्च । निदानार्थकरेषु विषमवातादिषु ज्वरादिषु चातिप्रसङ्गात् । सुश्रुते तु सर्वेषाश्च व्याधीनां वातपित्तश्लेष्माण एव मूलं तल्लिङ्गखात् इत्युक्तं न निदानमुक्तम् तल्लिङ्गखादित्यनेन वातादिप्रकृतिकवमुक्तं तेन सर्वेषां व्याधीनामिति वातादिप्रकृतिकानां व्याधीनां ज्वरादीनां मूल. मित्युक्तं न खागन्तुव्याधीनां न वा कामादीनां मानसव्याधीनां मूलमुक्तं तस्माद विषमवातपित्तश्लेष्माणो न निदानं किन्तु विकारा एव । यत उक्तं विकारो धातुवैषम्यमिति, तच्च धातुवैषम्यं निदानार्थकरं निदानार्थकरज्वरादिव्याधिवनाधिरेव। तत्र सुश्रुते च पुनरुक्तं तद् यथा-"भूयोऽत्र जिज्ञास्य-किं वातादीनां ज्वरादीनाञ्च नित्यः संश्लेषः परिच्छेदो वेति ? यदि नित्यः संश्लेषः स्यात् तहि नित्यातुराः सर्च एव प्राणिनः स्युः। अथाप्यन्यथा वातादीनां ज्वरादीनाश्चान्यत्र वत्तेमानानामन्यत्र लिङ्गं न भवतीति कृखा यदुच्यते वातादयो ज्वरादीनां मूलानीति ।” तस्मात् सर्वेषां व्याधीनामिति ज्वरादीनां न तु धातुवैषम्यागन्तुव्याधीनाम् ; किं हि वातवैषम्यस्य वातवैषम्यं मूलम् ? तत्रोत्तरश्वोक्तं-“दोपान प्रत्याख्याय ज्वरादयो न भवन्ति, अथ च न नित्यः सम्बन्धो यथा हि विदुरद्वाताशनिवर्षाणि आकाशं प्रत्याख्याय न भवन्ति, सत्यप्याकाशे कदाचिन्न भवन्ति अथ च निमित्ततस्तत एवोत्पद्यन्ते। तरङ्गबुद्धदादयश्च उदकविशेषा एव। एवं वातादीनां ज्वरादीनाञ्च नाप्येवं संश्लेषो न अयोगादि । पुनर्विप्रकृष्टं कारणं ज्वरस्य रुद्रकोपः, सन्निकृष्टं कारणं रक्तपित्तस्य ज्वरसन्ताप इति । पुनश्च न्याधीनां सामान्येन विप्रकृष्टं कारणमुक्तम्, यथा-"प्रागपि चाधाहते न रोगोस्पत्तिरभूद' इत्यादि। तदेतत् सर्वमपि कारणशब्देन ग्राह्यम्। तत्राधर्मकार्यत्वेन व्याधीनां
For Private and Personal Use Only