________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५र्थ अध्यायः
विमानस्थानम् । १४८५ शयानुपशयाभ्यां दोषप्रमाणविशेषमपचारविशेषण। आयुषः क्षयमरिष्टरुपस्थितश्रेयस्त्वं कल्याणाभिनिवेशेन अमलं सत्त्वम् अविकारेण । ग्रहण्यास्तु मृदुत्वं दारुणत्वञ्च स्वप्नदर्शनमभिप्राय द्विष्टेष्टेष्वसुखसुखानि * चातुरपरिप्रश्नेनैव विद्यादिति ॥६॥ व्यस्तसमस्तकालादिभिर्वयःप्रभृतीन विद्यादित्यर्थः। अमलं सत्त्वं मनसो नैर्मल्यमविकारेण मनसो विकाराभावेन अद्वैधेनेत्यर्थः । आतुरस्य स्वमदर्शनं आतुरस्यैवाभिमायं आतुरस्यैव द्विष्टेषु चेष्टेषु चाभिमतेषु सुखदुःखानि । अत एव सुश्रुतेनाप्युक्तं विशिखानुप्रवेशनीयेऽध्याये। अधिगततन्त्रेणोपासिततन्त्रार्थेन दृष्टकर्मणा कृतयोग्येन शास्त्रार्थ निगदता राक्षानुज्ञातेन नीचनखरोम्णा शुचिना शुक्लवस्त्रपरिहितेन च्छत्रवता दण्डहस्तेन सोपानोत्केन अनुद्धतवेशेन सुमनसा कल्याणाभिव्याहारेणाकुहकेन बन्धुभूतेन भूतानां मुसहायवता वैदेान विशिखाऽनुप्रवेष्टव्या। ततो दूतनिमित्तशकुनमगलानुलोम्येनातुरगृहमभिगम्योपविश्यातुरमभिपश्येत् स्पृशेत् पृच्छेच्च। त्रिभिरेतेविशानोपायैः प्रायशो रोगा वेदितव्या इत्येके। तत्तु न सम्यक् । षडू विधो हि रोगाणां विज्ञानोपायः। तद् यथा-पञ्चभिः श्रोत्रादिभिः प्रश्नेन चेति । तत्र श्रोत्रेन्द्रियविज्ञ या विशेषा रोगेषु व्रणास्रावविशानीयादिषु वक्ष्यन्ते सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छतीत्येवमादयः। स्पशेनेन्द्रियविशे याः शीतोष्णश्लक्ष्णकर्कशमृदुकठिनत्वादयो स्पशेविशेषा ज्वरंशोफादिषु। चक्षुरिन्द्रियविज्ञ याः शरीरोपचयापचयायुर्लक्षणवलवणेविकारादयः। रसनेन्द्रियविज्ञ याः प्रमेहादेशेन तु भक्तिरिच्छा ज्ञायते, यथा त्वयं मध्य देशीयस्तेनास्य गोधूममाषादिषु इच्छानुमीयते । यस्माच्चेदमस्योपशेते, तेनेदमस्य सात्म्यमिति ज्ञायते, वेदनाविशेषेण व्याधिसमुत्थान ज्ञायते, यथा-यस्मादयं सन्तापवेदनावान्, तस्मादस्य ज्वरव्याधिसमुत्थानं भूतमित्यादि ज्ञेयम्। गूढ़लिङ्गमिति विशेषेण गूढलिङ्गब्याधौ लिङ्गैरेवानवधारिते तु उपशयानुपशयाभ्यां परीक्षा करणीयेति दर्शयति । अपचारविशेषेणेति महत्तापचारेण भूरिदोषा भवन्ति, स्वल्पेन स्वल्प इति । कल्याणाभिनिवेशेनेति श्रेयस्करमार्गानुष्ठानेन ;-एतदाचरतो निःश्रेयस एव भवति। सत्त्वमिति सत्वगुणोदेकमविकारेण। परिप्रश्नेन वेतिवचनेन, यद्यपि ग्रहणीमाईवाद्यनुमानादपि पायंते ज्ञातुम्, तथाप्यनुमानस्य बुाद्धप्रयासबहुत्वेनातुरपृच्छयव सुखोपचाररूपतया विद्याद ग्रहणीमाईवादीनीति दर्शयति । मृद्विस्यादि । अभिप्रायो भोजनादीच्छा । द्विष्टेष्टशब्देन तु द्विष्टेप्सितप्रेप्यादिग्रहणम् ॥६॥ * द्विष्टेष्टसुखदुःखानीति पाठान्तरम् ।
For Private and Personal Use Only