SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४८४ चरक-संहिता। त्रिविधरोगविशेषविज्ञानीयविमानम् दैन्येन हर्षमामोदेन प्रीतिं तोषेण भयं विषादेन धैर्य्यम् अविषादेन वीर्यमुत्साहेन * अवस्थानमविभ्रमेण श्रद्धामभि. प्रायेण मेधां ग्रहणेन संज्ञां नामग्रहणेन स्मृति स्मरणेन हियम् अपत्रपेण शीलमनुशीलनेन द्वेष प्रतिषेधेनोपाधि + मनुबन्धेन धृतिम् अलौल्येन वश्यतां विधेयतया क्योभक्तिसात्माव्याधिसमु. स्थानानि कालदेशोपशयवेदनाविशेषेण गूढलिङ्ग व्याधिमुपसङ्गेन प्राप्तार्थे प्रीत्यसम्पूर्णखतदासक्ताभयरूपेण। मोहमविज्ञानेनेति वचनेन तमो मोहेनेत्युक्तं भवति मोहस्य तमोजखात् । मेधां ग्रहणेन मनसा धारणेन । स्मृति स्मरणेन स्मृतार्थानां प्रकाशनेन। अपत्रपेण लज्जाजनकपरकीयव्यापारेण । शीलं तच्छीलता सतताभ्यसनमनुशीलनेन पश्चात् शीलनव्यापारेण। प्रतिषेधेन निषेधेन। उपाधिमनुबन्धेनेति उपाधिराधुनिकसङ्केतः सङ्केतकत्र्तभिः कृतः, अनुबन्धेनोत्तरकालमनुवत्तेनेन। धृतिनियमात्मिका बुद्धिः। अलोल्यमचञ्चलत्वम् । विधेयतया यदयस्मिन्नाशाप्यते तस्य ततकर्तव्यत्वेन । वय इत्यादि वयः कालेन भक्तिं देशेन सात्म्यमुपशयेन सुखावहव्यापारण व्याधिसमुत्थानं वेदनाविशेषेण इत्येवं यथाक्रमं नान्वयः, परन्तु यथायोगं यथा-पेयजले पानार्थी प्रवृत्तिः। तेनानुमीयते जलज्ञानमस्य जातम्, कथमन्यथा ज्ञानकार्याथेंक्रियायां प्रवर्तत इति। रजः सङ्गेनेति ना-दिसङ्गेन, तत्कारणरजोऽनुमीयते। अभिद्रोहः परपीड़ार्थप्रवृत्तिः। दैन्यं रोदनादि। आमोदो गीतवादिनाघत्सवकरणम्। तोषो मुखनयनप्रसादादिः। तेन प्रीतिस्तोपमात्रम्, हर्षस्तु प्रीतिविशेपो मन उद्रेककारक इत्युक्तं भवति । धैर्य विपद्यपि मनसोऽदैन्यम्। वीर्य्यमाख्धदुष्करकार्येप्वव्यावृत्तिर्मनसः। उत्थानेनेति क्रियारम्भेण। अवस्थानं स्थिरमतित्वम्। अविभ्रमेणेत्यभ्रान्त्या। श्रद्धामिच्छाम्। अभिप्रायेणेति अभ्यर्थनेन। ग्रहणेनेति ग्रन्थादिधारणेन। स्मृतिमिति स्मृतिजनक संस्कारम् । स्मरणेनेति तरकारणं संस्कारोऽनुमीयते। हियमिति लज्जाम्। अपनपेणेति लजिताकारेण । शीलमिति सहजं वस्तुपु रागम्। अनुशीलनेनेति अनुशीलनं सततशीलनम् ; तेन सततं यमर्थ सेवते तच्छीलोऽयमित्यनुमीयते । प्रतिषेधेनेति व्यावस्था। उपेत्य धीयते इति उपधिः छन इत्यर्थः, अनुबन्धेनेत्युत्तरकालं हि भ्रात्रादिवधेन फलेन ज्ञायते,- यदर मुन्मत्तच्छ प्रचारी चन्द्रगुप्त इति। विधेयतयेति विधेयप्रचारेण । वयःप्रभृतीनि व्याधिसमुत्थानान्तानि चत्वारि यथासंख्यं कालादिविशेषेण ज्ञायन्ते। तत्र कालविशेषेण षोडशवर्षादिना वयो बाल्यादि ज्ञायते । * उस्थानेनेति पाठान्तरम् । + उपधिमिति चक्रः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy