________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अभ्यायः विमानस्थानम्।
१४८३ मक्षिकोपसर्पणेन शरीरमाधुर्यम् लोहितपित्तसन्देहे तु किं धारिलोहितं लोहितपित्तं वेति, श्वकाकभक्षणाद् धारिलोहितम् अभक्षणाल्लोहितपित्तमित्यनुमातव्यम् । एवमन्यानप्यातुरशरीर. गतान् रसाननुमिमीत । गन्धांस्तु खलु सर्वशरीरंगतानातुरस्य प्रकृतिवैकारिकान् घाणेन परीक्षेत। स्पर्शश्च पाणिना प्रकृतिविकृतियुक्तमिति प्रत्यक्षतश्चानुमानैकदेशतश्च परीक्षणमुक्तम् ॥५
इमे तु खल्वन्येऽप्येवमेव भूयश्चानुमानज्ञ या भवन्ति भावाः । तद् यथा-अग्निं जरणशत्त्या परीक्षेत बलं व्यायामशक्त्या श्रोत्रादीनि च शब्दाद्यर्थग्रहणेन मनोऽर्थाव्यभिचारेण विज्ञानं व्यवसायेन रजः सङ्गेन मोहमविज्ञानेन क्रोधमभिद्रोहेण शोकं तस्मादित्यादि। यूको वाह्यमलक्रिमिः। धारिलोहितमिति जीवितरक्तं येन रक्तेन जीव्यते लोकः। अनुमानकदेशत इति आतुरशरीरगतरसस्यानुमानतः॥५॥
गङ्गाधरः-प्रत्यक्षतः परीक्षणमुपदर्यानुमानेन परीक्षणमुपदर्शयति–इमे खित्यादि। इमे इत्यत ऊर्द्ध वक्ष्यमाणाः अन्येऽपीत्यनुक्ता अपि चात्र ज्वरादयः। अग्निं जरणशक्तप्रति सर्च वक्ष्यमाणं विद्यादित्यनेनान्वीयते। कैश्चित् प्रागुक्तं परीक्षेतेत्यनेन। जरणशक्तिभुक्तजीर्णकरी शक्तिः। अर्थाव्यभिचारेणेति अव्यभिचरितस्मृत्यादिना व्यवसायेन शास्त्रादिषु विकल्पबुद्धया। शरीराद यूका अपसर्पन्ति । एवं यूकाद्यनपसर्पणेन प्राकृतरसयुक्तशरीरमनुमातव्यम्। धारिलोहितमिति जीवनलोहितमित्यर्थः। श्वकाकभक्षणादिज्ञेयं यत्, तत् पित्तोदुष्टत्वेनाविरसात श्वादयो भक्षयन्ति, न तु पित्तदुष्टरक्तमिति भावः। अत्र शब्दस्पर्शरूपरसगन्धा इत्युपदेशं कृत्वा शब्दानन्तरं चक्षुर्लाह्य रूपं दर्शयन् शब्दादिपरीक्षायाश्च क्रमनियमाभावं सूचयति ॥ ५॥
चक्रपाणिः-भूयोऽनुमानज्ञेया इत्यनेनानुमानगम्यतया वक्ष्यमाणाः केचिदग्निबलादय आतुरोप. देशगम्या भवन्तीति सूचयति। मनोऽर्थाव्यभिचरणेनेति सतीन्द्रियाणामर्थनिबन्धे यदि कदाचिच्छटदं प्रत्येति, कदाचिद्रसमित्याद्ययोगपर्धन सर्वार्थान् प्रत्येति। तेन तु इन्द्रियार्थ संयोगानन्तरमिन्द्रियार्थग्राहकं मन इत्यनुमीयते। ज्ञानं व्यवसायेनेति व्यवसायः प्रवृत्तिः । * ज्ञानमिति वा पाठः।
For Private and Personal Use Only