________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८२
चरक-संहिता । ( त्रिविधरोगविशेषविज्ञानीयविमानम् ष्ठानमेवंवेदनमेवंसंस्थानम् एवंशब्दस्पर्शरूपरसगन्धमेवमुपद्रवमेवं वृद्धिस्थानक्षयान्वितमेवमुदकमेवनामानमेवंयोगं विद्यात् । तस्मिन् इयं प्रतीकारार्था प्रवृत्तिरथवा निवृत्तिरित्युपदेशाज्ञायते ॥४॥
प्रत्यक्षन्तु खलु रोगतत्त्वं बुभुत्समानः सर्वैरिन्द्रियैः सर्वान् इन्द्रियार्थानातुरशरीरगतान् परीक्षेतान्यत्र रसज्ञानात्। तद्यथा-अन्त्रकूजनं सन्धिस्फुटनमगालीपणां खरविशेषांश्च ये चान्येऽपि केचिच्छरीरोपगताः शब्दाः स्युस्तान् श्रोत्रेणैव परीक्षेत।
वर्णसंस्थानप्रमाणच्छायाशरीरप्रकृतिविकारौ चक्षुर्वैषयिकाणि यानि चान्यानि कानि च, तानि चक्षुषैव परीक्षेत। रसन्तु खल्वातुरशरीरगतमिन्द्रियवैषयिकमप्यनुमानादवगच्छेत् । न ह्यस्य प्रत्यक्षेण ग्रहणमुपपद्यते। तस्मादातुरपरिप्रश्नेनैव आतुरमुखरसं विद्यात्। यूकोपसर्पणेन त्वस्य शरीरवैरस्यम् एवमधिष्ठान शारीरं वा मानसं वा तत्रापि शरीरावयव विशेषाधिष्ठानमेवंस्थानं वाह। एवंशब्दादिकमेवमुदकमेवंविधौत्तरकालिकफलकम् एवंयोगम् एवंविधप्रयोगयोग्यम्। इत्याप्तवचनान ज्ञानोपदर्शनम् ॥४॥
गङ्गाधरः-प्रत्यक्षन्वित्यादि। प्रत्यक्षं परीक्षेतैत्यन्वयः। वणेत्यादि । यद्यपि रूपमेव चक्षुरर्थस्तथापि वर्णाश्रितत्वेन तदुपलक्षितखात् संस्थानादीनाम् अपि चक्षुरर्थत्वं बोध्यम् एवं रसगन्धस्पर्शाश्रयाणामपि बोध्यम् । चक्षुषो बहुविषयवात् प्राक स्पर्शनोपदेशादित उपदेशः। न ह्यस्य प्रत्यक्षग्रहणमुपपद्यतेऽनौचित्यादिति शेषः। ननु कुतोऽनुमीयेत कस्य रस इत्यत आहआत्मा स्वभावः ; यथा-रोहिण्या दारुणत्वं, सन्न्यासस्य शीघ्रोपक्रमणीयत्वादि। अधिष्ठानं शरीरमवयवा मनश्च । इयं प्रतीकारार्था प्रवृत्तिः । यथा-ज्वरे लङ्घनपाचनाद्यर्थी प्रवृत्तिः । निवृत्तिः प्रतीकारार्था ; यथा-नवज्वरे दिवास्वप्नस्नानादौ निवृत्तिरित्यादि मन्तव्यम् ॥ ४॥
चक्रपाणिः--अङ्गुलीपणाञ्च स्फोटनमिति सम्बन्धः। अन्येऽपि चेति कासहिक्काशब्दादयः । 'यानि चान्यानि इत्यनेन लक्षणप्रभादीनि गृह्यन्ते। यूकापसर्पणेन शरीरवैरस्यमिति, बिरसादि
For Private and Personal Use Only