________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्र्थ अध्यायः ! विमानस्थानम् ।
१४८१ परोक्षोपपद्यते। किं ह्यनुपदिष्टं पूर्व यत्तत् प्रत्यक्षानुमानाभ्यां परीक्षमाणो विद्यात् । तस्माद् द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षम्
अनुमानश्च । त्रिविधां वा सहोपदेशेनेच्छन्ति बुद्धिमन्तः॥३॥ . रोगमेककमेवप्रकोपणमेवंयोनिम् + एवमात्मानमेवमधिपुनरातुरगतानां शब्दादीनां प्रत्यक्षेण रसानान्तु अनुमानेन जाठराग्न्यादीनाश्वानुमानेन परीक्षोपपद्यते, तत् कथमाप्तोपदेशादेशकैकेन कृत्वज्ञानं भवतीति भावः। ननु कस्मादातोपदेशस्य ज्ञानहेतुत्वं क्रियाकाले हि प्रत्यक्षानुमानाभ्यामेव परीक्ष्यते इत्यत आह-किमित्यादि । हि यस्मात् पूर्वमाप्तोपदेशेनानुपदिष्टं भावं ततः परं प्रत्यक्षानुमानाभ्यां किं विद्यादपि तु न विद्यात् । तस्मात् पूर्वम् आप्तोपदेशाज्ञानं ततः प्रत्यक्षानुमानाभ्यां परीक्षोपपद्यते। तस्माद् द्विविधा परीक्षा क्रियाकाले आतुराणां व्याधेानवतां प्रत्यक्षमनुमानश्च। तयोराप्तोपदेशपूर्वकलात् क्रियाकालिकखाच पृथगुपादानम्। आप्तोपदेशस्य तु तयोरादिखात् क्रियाकाले स्मृतरूपसाच पृथगुपादानं त्रिविधा वेत्यादिना कृतम् ॥३ ___ गङ्गाधरः-नन्वाप्तोपदेशात् कीदृशं ज्ञायते इत्यत आह-रोगमेकैकमित्यादि। एकैकं प्रत्येक रोग ज्वरादिकम् एवंप्रकोपणमित्येवं निदानम् एवंयोनि वातायेकद्वित्रयादिप्रकृतिम् एवमात्मानं शीतात्मकं वोष्णात्मकमेवमादि । देशो व्याधिं बोधयति, ततश्चाप्तोपदिष्टं व्याधिं प्रत्यक्षानुमानाभ्यां यथोक्तलिङ्गादिपरीक्षा निश्चिनोति, आगमानुपदिष्टे च व्याधौ अवैद्य इव न प्रत्यक्षेणानुमानेन च व्याधिमुपलभत इत्याह--कि धनुपदिष्ट इत्यादि। एवं मन्यते-व्याधिविशेषास्तावद् दुरधिगमनीया नोपदेशमन्तरेण शक्या विज्ञातुम् । येन अधिगतवैद्यकशास्त्राः प्रतिपादयन्त्येव व्याधिविशेषान् । तस्मादागमेन ये व्याधीनां हेत्वादिविशेषाः प्रतिपादितास्तान् प्रत्यक्षानुमानाभ्यामुपलभमानो च्याधिं निश्चिनोति, भनुपदेशवांस्तानुपलभमानोऽपि हेत्वादिविशेषानशिक्षितवत्कुपरीक्षको यथा रत्नानां विशेष पश्यन्नपि नावधारयति विशेषमिति भावः । ज्ञानवतामित्याप्तोपदेशवताम् । त्रिविधां वेत्यनेन, व्याधिपरीक्षासमये याप्तोपदेशोऽपि व्याप्रियते तथा दुरधिगमस्थानसंश्रयादिप्रतिपत्तौ कोष्ठमृद्ध दारुणत्वादिपरीक्षायाचातुरवचनरूपाप्तोपदेशोऽपि व्याप्रियत इति दर्शयति ॥३॥
चक्रपाणिः-तत्रेत्यादिना आप्तोपदेशमाह । प्रकोपणं वायो रुक्षत्वादिहेतुः। योनिर्वातादयः ।
* अनुपदिष्टे इति वा पाठः। तत्रेदमुपदिशन्तीत्यधिकः पाठः चक्रसम्मतः । । एवमुत्थानमित्यधिकः पाठो दृश्यते क्वचित् ।
१८६
For Private and Personal Use Only