________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८०
चरक-संहिता। त्रिविधरोगविशेषविज्ञानीयविमानम् अनुमानं खलु तर्को युक्त्यपेक्षः।
त्रिविधन खल्वनेन ज्ञानसमुदयेन पूर्व परीक्ष्य रोगं सर्वथा सर्वमेवोत्तरकालमध्यवसानमदोषं भवति। न हि ज्ञानावयवेन कृत्स्ने ज्ञं ये ज्ञानमुत्पद्यते। त्रिविधे त्वस्मिन् ज्ञानसमुदये पूर्वमाप्तोपदेशाद्धि ज्ञानम्। ततः प्रत्यक्षानुमानाभ्यां सर्व न प्रमागं तस्माद् यत् प्रमाणं तस्य प्रत्यक्षसंज्ञामुत्सृज्यापवदत्यनुमानसंज्ञाम् ।
अनुमानं खल्वित्यादि। तत्रापवाद विषये कचिदुत्सर्गोऽपि प्रवर्तते । तेन प्रत्यक्षपूवं त्रिविधं त्रिकालश्चानुमीयत इत्यत्र प्रत्यक्षपदेन सव्वप्रमाणं विवक्षितमिति । तदेवेह पुनः प्रकारान्तरेण भाष्यते। तो युक्त्यपेक्ष इति । युक्त्यपेक्षस्तकोऽनुमानं तापक्षस्तकस्तिस्रपणीये युक्तिरेव तक उक्तः, बुद्धिः पश्यतीत्यादिना। गौतमेनाप्युक्तम्। अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितः तत्त्वज्ञानाथमूहस्तर्क इति। व्याख्यातञ्चैतत् पूर्वम्। तापेक्षतर्कस्यानुमानववचनात् । केवलतकस्याप्तोपदेशे खाप्तस्येवानुमानेनान्तरीयकखेन प्रामाण्ये सिद्ध प्रमाणान्तरत्वं न भवति न चाप्रामाण्यम्। उपमानसम्भवार्थापत्त्यभावानामत्रानुमानेऽन्तर्भावानासमग्रवचनस्यैतिह्यस्याप्तोपदेशेऽन्तर्भावाच । - ननु त्रिविधविज्ञानेनात्र रोगविशेषज्ञानं किमर्थमुक्तमुक्तञ्च निदानादिभिर्यजशानं ततो निर्वाहादित्यत आह–त्रिविधेनेत्यादि। ज्ञानसमुदयेन न बन्यतमव्यतिरेकेण। सर्व गुरुमुखात् सर्वथा सर्वरोगं शाखा कर्मकाले प्रत्यक्षानुमानाभ्यां सर्वथा सर्व रोग निदानादिभिः परीक्ष्य चरमकालमध्यवसानमदोषं भवति। कस्मात् ? न हीत्यादि। किश्चिदेव प्रत्यक्षेण किश्चिदेवानुमानन ज्ञायते न तु कृत्स्नमेकेन ज्ञातुं शक्यते। त्रिविधे तु ज्ञानसमुदये खलु कृत्स्नं साध्यवादिवातजलादिवलवदादिरूपेण ज्ञानं भवति, न तु प्रत्यक्षेणान्यैा। आप्तोपदेशेन पूर्व हि रोगतत्त्वं बुद्धा ततः क्रियाकाले तच्च मानसं प्रत्यक्षं गृह्णाति। तर्कोऽप्रत्यक्षज्ञानम् । युक्तिः सम्बन्धोऽविनाभाव इत्यर्थः । तेनाविनाभावजं परोक्षज्ञानमनुमानमित्यर्थः। ___ ज्ञानसमुदायेनेति । ज्ञानसमुदायः प्रमाणसङ्घातस्तेन समुदायेन 'अयमेव रोगः' एवम्मूतनिश्चयोऽध्यवसानम्। विविध वियादि। ज्ञायतेऽनेनेति ज्ञानं प्रमाणम्। प्रथममाप्तोप
For Private and Personal Use Only