________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः विमानस्थानम् ।
१४७६ स्थूलान् विषयान् सुखादीन् स्थूलयाहकारिक्या बुद्धीवोपलभते। इत्यात्मप्रत्यक्षा बुद्धिमुखदुःखेच्छादयः। अत्रादिशब्द मनःप्रत्यक्षाश्चिन्त्यादयोऽर्थाः । तत्र सुषुप्तिस्वामयोः सन्धौ खात्मा महत्तत्त्वेन मनसा यच्चिन्तनीयं तक्यं विचार्यचोपलभते, तन्मनःप्रत्यक्षम्। स्वमस्थानस्तैजसो यदाहङ्कारिकेण मनसोपलभते चिन्तनीयादिकं तन्मनःप्रत्यक्षम्। जागरितस्थानो वैश्वानरोऽप्यात्मा स्वयम् आत्मकृतसत्त्वादिगुणमयेन स्थूलमनसा यचिन्तनीयादिकमुपलभते तल्लोके मनःप्रत्यक्षमिति। स्वप्नसुषुप्त्योः सन्धौ चाहकारिकपञ्चेन्द्रियपश्चार्थाभावान्नास्ति चेन्द्रियप्रत्यक्षम्। अथ स्वमस्थानस्तैजसो यद्यदाहङ्कारिकेण श्रोत्रादिना स्वप्ने शब्दादीनुपलभते तदिन्द्रियप्रत्यक्षं स्वप्ने। जागरितस्थानो वैश्वानर आत्मा स्वयं वाह्य लोके सन्निकृष्टं यच्छब्दादिकं भौतिकेन श्रोत्रादिनन्द्रियेण उपलभते तदिन्द्रिय प्रत्यक्षम् । तत्रेन्द्रियाथयोः सन्निकर्ष उक्तस्तिस्रषणीये। अतिविप्रकर्षातिसनिकषमनोऽनवस्थानकरणदौब्बल्यातिसौक्षम्याभिभवावरणसमानाभिहारवज्ज सान्निध्यमिति। तत्र श्रोत्रेन्द्रियेण समानयोनिमर्थ शब्द तद्विपरीतश्च शब्दस्य निवृत्याख्यं गुणमुपलभते न तु शब्दवव्यं तत्स्वभावात् । स्पशनेन्द्रियेणात्मा समानयोनिमथं स्पर्श शीतोष्णस्निग्धरुक्षरखरममृणविशदपिच्छिलस्थूलसूक्ष्मसान्द्रद्रवमृदुकठिनादिकं तद्विपरीतश्चास्पशेमप्रतीघातमुपलभते तत् समवायात्तद्वच द्रव्यमाकाशादिकमिति। चक्षुरिन्द्रियेणात्मा स्वयं समानयोनिकमर्थं रूपं लोहितशुक्लकृष्णादिकं तद्विपरीतश्चारूपमाकाशस्य तपारूपसमवायात् तद्वद्रव्यमरूपमाकाशमुपलभते न खरूपं वायु तत्स्वभावात् इति। सयापरिमाणपृथक्त्वसंयोगविभागपरखापरखकर्माणि रूपवव्यसमवायाचाक्षुपाणीति रूपहीनेष्वचाक्षुषाणीति कणादः। एवं रसनेन्द्रियेणात्मा स्वयं समानयोनिकमर्थ रसं मधुरादिकं सविपरीतमुपलभते, तत्समवायाच्च तद्वद्रव्यं घ्राणेन्द्रियेणात्मा स्वयं समानयोनिकमर्थं गन्धं सौरभादिकं सविपरीतमुपलभते. तत्समवायाच तद्रव्यमिति साक्षात् परम्परया पञ्चेन्द्रियप्रत्यक्षं व्याख्यातं यत् प्रमाणमुच्यते। इत्येतदात्मप्रत्यक्षादिकं सप्तविधं प्रत्यक्ष प्राप्याथग्रहणलक्षणं द्विविधं क्षणिकं निश्चयात्मकञ्च। तत्र क्षणिकमप्रमाणं निश्चयात्मकन्तु प्रमाणम्। तत्र यत् पञ्चेन्द्रियार्थसन्निकोत्पन्नमात्ममनःसंयोगजपूव्य कमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं ज्ञानं प्रत्यक्षप्रमाणं पञ्चविधमिन्द्रियज्ञानम्। आत्मप्रत्यक्षन्तु यदप्राप्य ग्रहणमाप्तोपदेशाद् भवति तल्लौकिकप्रमाणमयलौकिकेषु न प्रमाणमप्राप्त्यर्थखात्। मानसप्रत्यक्षन्तु
For Private and Personal Use Only