________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४७८
चरक-संहिता। त्रिविधरोगविशेषविज्ञानीयविमानम्
गुणानां मुखादीनामात्मप्रत्यक्षं न मनःप्रत्यक्षम् । तद् यथा वैशेषिके मूत्रे द्वे । परत्र समवायात् प्रत्यक्षवाच नात्मगुणा मनसो गुणाः। अप्रत्यक्षवाच । व्याख्यातञ्च। बुद्धीच्छादयो ये प्रत्यगात्मगुणा न ते मनसो गुणाः। कस्मात् ? परत्र समवायात्। प्रत्यगात्मनः परत्र समवायात्। परस्याव्यक्ताख्यस्य क्षेत्रज्ञस्यात्मनो गुणा एव सुखादयः प्रत्यगात्मन्यभिव्यक्ताः करणानां बुद्धिमनःप्रभृतीनां योगात् प्रत्यगात्मनः परत्राव्यक्त समवायात् । अस्तु तहिं मन आत्मसंयोगान्मनस एव गुणास्तेऽभिव्यज्यन्ते इति चेन्न प्रत्यक्षवाच। प्रत्यगात्मप्रत्यक्षा हि बुद्धिसुखादय इति। अस्त्वेवं मनःप्रत्यक्षा बुद्धिसुखादय इति चेत् न, अप्रत्यक्षखात। मनो हि बुद्धग्रादीन गुणान् न जानातीति मनःप्रत्यक्षवाभावानात्मगुणा मनसो गुणा इति। गौतमेनापि मुखादेरात्मप्रत्यक्षम् उक्त फलपरीक्षायाम्। तत्र मूत्रम्। प्रीतेरात्माश्रयत्वादप्रतिषेध इति। तत्र वात्स्यायनभाष्यम्। प्रीतिरात्मप्रत्यक्षवादात्माश्रयेति। तस्मात् प्रीतेरात्मगुणखाप्रतिषेध इति। तथा च । सुषुप्तिस्थान आत्मा प्रज्ञया बुद्धग्रोपाहितः खल्वव्यक्ताख्यः स खल स्वयं सुषुप्तौ समाधौ जीवन्मुक्तौ च प्रज्ञया शुद्धसत्त्वात्मकमहत्तत्त्वाख्यबुद्धया परमात्मानं तुरीयं शिवं रसं लब्धानन्दमुपलभते। तदुपलब्धिस्तत्र तत्रात्मप्रत्यक्षम्। सा प्रज्ञा बुद्धिस्त्रिगुणात्मकस्तु महान् तस्यात्मनो मन उक्तं साङ्खो कपिलेन। तन्मनः। इति मूत्रम्। तच्च न देवदत्तादिपुरुषाणां मनस्तस्मान्न मानसप्रत्यक्षम्। तेनोपलब्धिज्ञानेन प्रत्यक्षेण सा च प्रशा प्रत्यक्षा भवति। एवं तदव्यक्तात्मना त्रिगुणात्मकेन महत्तत्त्वेन मनसाहमिति मन्यत इति तन्महान्तं विकुर्वाण आत्माहङ्क्रारम् अविद्याख्यां बुद्धिं सृजति। तस्मादहङ्काराज्जातानि महाभूतानि पञ्चानुप्रविश्य तैजस आत्मांशेन भवति। तदाहकारिकदशेन्द्रियमनोऽर्थपश्चकपञ्चप्राणयुक्तः स्वमस्थानः स्वप्ने सुखदुःखादिकमुपलभते तयाहकारबुद्धया तदुपलब्धिः स्वप्ने प्रत्यक्षम्। स चैव तैजस आत्मा देवनरादिगोनिषु शुक्रशोणितादिवीजसंयोगमुपेत्य पञ्चमहाभूतानि सृष्ट्वा तदुपाहितः सन् वैश्वानरो नाम जागरितस्थान आत्मा भवति तैर्भूतैराहकारिकदशेन्द्रियानुप्रविष्ट रेकैकाधिकै
र्जातानि भौतिकानि गृहीत्वा तथा त्रीन् गुणान् सृष्ट्वाहङ्कारिकमनोऽनुपविष्टतत्रिगुणात्मकं सत्त्वगुणबहुलं स्थूलमनो गृहीखा तथार्थान शब्दादीन् पश्च स्थूलान् प्राणांश्च पञ्च गृहीखा चतुर्विशतिको भवति । स तु जागरणावस्थायां
For Private and Personal Use Only