________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः विमानस्थानम् ।
१४७७ प्रत्यक्षन्तु नाम खलु तद् यत् स्वयमिन्द्रियैरात्मना चोपलभ्यते। लक्षणमलौकिकेषु न प्रमाणम्। योगिभिहि योगे प्रक्षया प्राप्यालौकिकार्थ उपदिश्यते वागभिर प्यैव। तस्मादलौकिकार्थवचनं तेषां सत्यमपि न प्रमाणम्, प्राप्याग्रहणलक्षणं हि शानं प्रमाणम्। लौकिकार्थानान्तु योगेन प्रशया प्राप्य पुनर्वाङ्मनसाभ्याञ्च प्राप्य योगिभिर्वचनं प्रमाणमिति । अलौकिकार्थप्रत्यक्षन्तु योगजं प्रज्ञया प्राप्यैव तदलौकिकप्रमाणमेवेति गौतमादिभिलौकिकममाणवक्तभिः प्रमाणेषु योगजप्रत्यक्षं नोक्तमिति। विस्तरेण तिस्रपणीये व्याख्यातम् ।।
क्रमिकं प्रत्यक्ष लक्षयति-प्रत्यक्षन्वित्यादि। तिस्रषणीये प्रागुक्तम् । आत्मेन्द्रियमनोऽर्थानां सन्निकर्षात् प्रवर्तते। व्यक्ता तदात्वे या बुद्धिः प्रत्यक्ष सा निरुच्यते॥ इति । तदिह व्याख्यानप्रसङ्गेन पुनरुच्यते। प्रत्यक्षन्तु खलु तद यत् स्वयमिन्द्रियैरात्मना चोपलभ्यते। अत्र तु इन्द्रियै रिति पृथगवचनात् ख्यापितं श्रवणादिपञ्चबुद्धीन्द्रियप्रत्यक्ष प्रमाणम् स्वतन्त्र पञ्चबुद्धीन्द्रियाणीत्युक्तेः। आत्मनेति आत्मशब्देन बुद्धिः बुद्धग्राश्रयखान्मनश्चेति द्वयं विवक्षितम्। स्वयमितिपदेन त्रिधा आत्मा विवक्षितः। आत्मनो नित्यं बुद्धियोगाद बुद्धिरपि त्रिविधा। यत्पदेन शब्दादयः पञ्चेन्द्रियार्थाश्चिन्त्यविचार्यो ह्यधिकं मनोऽर्थः। बोद्धव्यं सुखादिकं बुद्धेरर्थश्चेति सर्व विवक्षितम्। तत्र स्वयं खलु जागरितस्थानेन वैश्वानरेणात्मना स्वप्नस्थानेन तैजसेनात्मना सुषुप्तिस्थानेन प्राशनात्मना पञ्चभिरिन्द्रियैर्यत् सनिकृष्टं वस्तूपलभ्यते मनसा यदुपलभ्यते बुद्धया च यदुपलभ्यते तदुपलब्धिशानं प्रत्यक्षम्। तेन सप्तविधं प्रत्यक्षं भवति। रोगभिषजितीयेऽपि वक्ष्यते । आत्मना चेन्द्रियैश्च यत् स्वयमुपलभ्यते तत् प्रत्यक्षं तत्रात्मप्रत्यक्षाः सुखदुःखेच्छादयः शब्दादयः पुनरिन्द्रियप्रत्यक्षा इति। कणादनापुरक्तम् आत्मधार्यते रागादिदुष्टत्वादित्यर्थः। दुष्टश्चायमदृष्टश्चेति दुष्टादृष्टः । तेन पिता हि पुत्रस्य दुष्टोऽपि अदुष्टत्वादाप्त एव भवति । किंवा दुष्टो वञ्चकः । ___ स्वयमिन्द्रियैर्मनसा चेत्यनेन यदात्मनेन्द्रियैश्चक्षुरादिभिरव्यवधानेन गृह्यते रूपादि, तत् प्रत्यक्षमिति वाह्यप्रत्यक्षं गृह्णाति। मनसा चेत्यनेन मनसाऽव्यवधानेन यदुपलभ्यते सुखादि,
* मनसेति वा पाठः।
For Private and Personal Use Only