________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४७६
चरक-संहिता । त्रिविधरोगविशेषविज्ञानीयविमानम् विदो निष्प्रीत्युपतापदर्शिनः। तेषामेवंगुणयोगाद यद्वचनं तत् प्रमाणम्, अप्रमाणं पुनर्मत्तोन्मत्तमूर्खवक्तृदृष्टादृष्टवचनमिति छ । सव्वेषामेव भावानां तत्त्वेन स्मृत्या विभागं सदसद्रपवं विदन्ति ये ते अवितर्कस्मृतिविभागविद आप्ता इति चेत् तदा देवग्रहजष्टा अप्यवितर्कस्मृतिविभागविदः किमाप्ता इत्यत आह-निष्पीत्युपतापदर्शिन इति। प्रीत्युपतापाभ्यां निर्गता निष्पीत्युपतापा ये द्रष्टु शीलबन्तस्ते साप्ताः। देवग्रहजुष्टा उपतप्ता देवग्रहण यदुच्यते त्रैकालिकं ते तद्वदन्ति । ये चावितकस्मृतिभ्यां प्रीत्या वदन्ति ते च नाप्ताः। ईदृशास्तु पुरुषास्ते भवन्ति ये तपोशानबलेन रजस्तमोभ्यां निर्मुक्तास्त्रैकालिकाव्याहतनिर्मलज्ञानवन्तः स्युः। एवमुक्तरूपगुणयोगात् तेषां वाङ्मनसाभ्यां त्रैकालिकार्थस्य प्राप्यग्रहणाद् यद्वचनं तत् प्रमाणमेव न खप्रमाणम्। रजस्तमोविनिर्मुक्तत्वेनानृतवक्तखाभावात्। वाङ्मनसाभ्याम् अलौकिकार्थस्याप्राप्यग्रहणादलौकिकार्थवचनमात्रमर्थप्राप्त्यभावात् सत्यमपि न प्रमाणं लौकिकार्थोपदेशो हि प्रमाणम् अत ईश्वरादिरप्रमेय उक्तः । ननु कस्य वचनमप्रमाणमित्यत आह-अप्रमाणं पुनरित्यादि । मत्ता आसवमद्यादिकृतमदाभिहताः। उन्मत्ता उन्मादादिव्याधिभिरुन्मत्ताः। मूर्खा वेदादिशास्त्राध्ययनादिभिजनितावितर्कस्मृतिविभागशानाद्धीनास्ते च ते वक्तारश्चेति ते मत्तोन्मत्तमूर्खवक्तारस्तेषां दृष्टादृष्टयोवस्तुनोर्विषये यद्वचनं तदप्रमाणं तेषां दृष्टविषये वचनमपि न प्रमाणं यद्धि तैदृष्टं तदुपदेशे तत्त्वतो वक्तुमशक्तखात् मत्तलादुन्मत्तत्वान्मूर्खखाच। एतच्चाप्तवचनमलौकिकार्थानामप्राप्यार्थग्रहणन्यूना भवति। अवितन्यादि। वितर्कः कथन्ताऽनिश्चितज्ञानमिति यावत् । स्मृतिः स्मरणज्ञानम् । विभाग एकदेशः। एतद्विपर्य्ययान्निश्चयेनानुभवेन च कात्स्येन च ये भावान् जानते, तेऽवितर्कस्मृतिविभागविदः ; विनम्वेदी तु नाप्तः प्रतिपाद्यवस्त्वशेषविशेषाविज्ञानात् । स्मृतिज्ञानञ्च यद्यपि प्रमाणमूलमेव, तथापि वर्तमानलक्षणे स्मृतिज्ञानविषयार्थस्य नावश्यंविद्यमानतेति न तत् प्रमाणमिति भावः। किंवा, स्मृतिज्ञानं स्मृतिशास्त्र ज्ञानं गणितज्ञानच। एतच्च ज्ञानद्वयं साक्षादर्थादर्शकं दुरवबोधेन मिथ्याज्ञानत्वसम्भवादप्रमाणमपीति नोपादेयम्। अथ सम्यगज्ञानवन्तोऽपि रागादिवशादन्यथा व्याहरन्तीत्याह-निष्प्रीत्युपतापदर्शिन इति, निष्प्रीत्या निरुपतापेन च दृष्ट शीलं येषां ने तथा। एतेन यथार्थदर्शी निर्दोषश्चाप्तो भवतीति उक्तं भवति। एवम्मृतशाप्तत्वं कस्यचिद् ब्रह्मादेः सर्वत्रैव भवति। लौकिकस्य तु यस्मिन्नेव तु विषये वितर्कादि न भवति, तत्रैवोपदेशः प्रमाणमिति ज्ञेयम् । अप्रमाणं नावश्यं प्रमाणतयाऽव
* रक्तदृष्टादृष्टवचनमितीति चक्रसम्मतः पाठः ।
For Private and Personal Use Only