________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः। अथातस्त्रिविधरोगविशेषविज्ञानीयं विमानं व्याख्यास्यामः
इतिह स्माह भगवानात्रेयः ॥ १॥ त्रिविधं खलु रोगविशेषविज्ञानं भवति, तढ यथा-उपदेशः प्रत्यक्षमनुमानञ्चेति ॥ २॥
तत्रोपदेशो नामाप्तवचनम्। आप्ता ह्यवितर्कस्मृतिविभागगङ्गाधरः-अथैवं रसादिविमानजनपदोदध्वंसविमाने उक्खा व्याधिज्ञानहेतुप्रमाणरूपं त्रिविधं रोगविशेषविज्ञानीयं विमानमाह-अथेत्यादि । अध्यायस्य
आदौ निद्दिष्टे त्रिविध रोगविशेषविज्ञानं भवतीति वाक्याथै त्रिविधं रोगविशेषविज्ञानमित्यर्थमधिकृत्य कृतो विमानाध्यायः। इति ग्रन्थेऽर्थे छः ॥१॥
गङ्गाधरः-त्रिविधमित्यादि। रोगेति विषमधातवो रोगास्तज्जाश्च ज्वरादयो देहादिकायद्रव्यवत् । रोगाणां ज्वरादीनां विशेषा वातादिनखादिना जातानां रूपाणि, तेषां विज्ञानं विशेषेण ज्ञायन्ते प्रमीयन्तेऽनेन तद्विशानं प्रमाणम् । तद् द्विविधमप्राप्यार्थग्रहणलक्षणं प्राप्याथग्रहणलक्षणञ्चेति । तत्पुनस्त्रिविधं तदाह तद् यथेति ॥२॥
गङ्गाधरः-तत्रेति। आप्ता हीत्यादि। हि यस्मात् । अवितकेंण वितर्क ऊहापोहात्मकस्तं वितर्क विना सदैवाविच्छेदेन युक्तज्ञानेन त्रैकालिकानां
चक्रपाणिः-जनपदोध्वंसनीये विशेषेण सर्वेऽपि रोगा उक्ताः, तेषां विशेषो यथा ज्ञातव्यस्तदुपदेष्टु विविधरोगविशेषविज्ञानीयोऽभिधीयते ॥ १ ॥
चक्रपाणिः-रोगाणां विशेपो यथा वक्ष्यमाणो ज्ञायते येन, तद्रोगविशेषविज्ञानमुपदेशप्रत्यक्षानुमानरूपं प्रमाणत्रयम्। अत्र तु युक्तरनुमानान्तर्गतत्वादेव न पृथक्करणम्। एतच प्रमाणत्रयं क्वचिद्रोगे मिलितम् , क्वचिद्वयम् क्वचिदेकं परीक्षायां वर्तते। येन, नान्तरे वह्निमान्यादी प्रत्यक्षमवश्यं व्याप्रियते ॥२॥
चक्रपाणिः-तिषणीये प्रथममनुमानादिलक्षणान्युक्तानि, पुनरिह “तत्रोपदेशो नाम" इत्यादिना आप्तोपदेशादिलक्षणाभिधानं प्रकरणागतत्वात् क्रियते। प्राकरणिको ह्यर्थोऽनुच्यमानो
For Private and Personal Use Only