SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४७४ चरक-संहिता। जनपदोद्ध्वंसनीयविमानम् प्राविकारसमुत्पत्तिरायुषश्च क्षयक्रमः। मरणं प्रति भूतानां कालाकालविनिश्चयः॥ यथा चाकालमरणं यथा युक्तञ्च भेषजम् । सिद्धिं यात्यौषधं येषां न कुर्याद येन हेतुना ॥ तदात्रेयोऽग्निवेशाय निखिलं सर्वमुक्तवान् । देशोद्ध्वंसनिमित्तीये विमाने मुनिसत्तमः॥ २७॥ इत्यग्निवेशकूते तन्त्रं चरकप्रतिसंस्कृत विमानस्थाने जनपदोद ध्वंसनीयविमानं नाम तृतीयोऽध्यायः॥३॥ मूलम्। प्रागेवानकेत्यादिना सर्व विकाराणां प्रागुत्पत्तिरायुषः क्षयक्रमश्च। किं नु खल्वित्यादिना भूतानां मरणं प्रति कालाकालविनिश्चयः । ततः परमित्यादिना भूतानां कालाकालमरणम्। चकाराज्ज्वरे चोष्णजलं शीतेनोष्णेत्यादिना भेषजं यथायुक्तं सिद्धिं याति तत्प्रकारः। दोषावसेचनन्वित्यादिना येषां भेपजं न कुर्यात् तत् । एवं विधमित्यादिना येन हेतुना तेषां भेषजं न कुर्यात् तत् ॥२७॥ अध्यायं समापयति । अग्नीत्यादि। इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीयस्कन्धे विमानस्थानजल्पे जनपदोदध्वंसनीयविमान जल्पाख्या तृतीया शाखा ॥३॥ सम्वविकृतिलक्षणाः, तच्च लक्षणम् “तत्र वातमेवंविधम्" इत्यादिना प्रोक्तम्। 'यथा युनञ्च भेषजं सिद्धि याति' इत्यनेनोग्णपानीयदानोपपत्त्या सर्वं संगृहीतम् ॥ २६॥२७॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान व्याख्यायां जनपदोद्ध्वंसनीयविमानं नाम तृतीयोऽध्यायः ॥ ३ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy