________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
विमानस्थानम्।
१४७३ चेति। एवंविधं ह्यातुरमुपचरन् भिषक् पापीयसाऽयशसा योगम् ऋच्छतीति ॥ २५ ॥
भवति चात्र ।* तदात्वे चानुबन्धे वा यस्य स्यादशुभं फलम् । कर्मणस्तन्न कर्त्तव्यमेतद् बुद्धिमतां मतम् ॥ २६ ॥
तत्र श्लोकाः। पूर्वरूपाणि सामान्या हेतवः सवलक्षणाः।
देशोदध्वंसस्य भैषज्यं हेतूनां मूलमेव च ॥ भेषजं न कुर्यादिति। कस्मादिति ? अत आह-एवंविधमित्यादि । हि यस्मात् एवंविधमल्पवादप्रतिकारस्वभावादिकमुक्तमातुरमुपचरन् चिकित्सन् भिषक पापीयसा लोके निन्दाजनकेनायशसा युक्तो भवति ॥२५॥
गङ्गाधरः-भवतीत्यादि। तदाखे चेत्यादि । तदाखे तत् कम्मकरणकाले । अथानुबन्धे उत्तरकालं वा यस्य कर्मणः फलमशुभं स्यात् तत् कर्म न कर्त्तव्यमिति बुद्धिमतां मतमिति ॥२६॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोका इति। पूर्वरूपाणीति प्रथमावध्युपक्रम कृता दृश्यन्ते हीत्यादिना जनपदोदध्वंसनस्य पूर्वरूपाणि । अपि खित्यारभ्य देशोदध्वंसस्य सामान्या हेतवस्तेषां लक्षणानि च। विगुणेवित्यारभ्य देशध्वंसस्य भेषजम् । अथ खल्वित्यादिना हेतूनां वाय्वादीनां भवति, न च चिकि पा सिध्यत्यधर्मप्रतिबन्धात् मुमूर्षुलिङ्गान्वितस्येति रिष्टयुक्तस्य, पापीयसेति पापहेतुना पापजनकेनायशसा ॥२५॥
चक्रपाणिः-अनुबन्धे वेत्युत्तरकालम् । संग्रहे पूर्वरूपाणीति नक्षत्रादिविकारः, सस्वलक्षणाः * अधिकमिदं श्लोकद्वयं चक्रपाणिसम्मतं यथा
अल्पोदकद्रुमो यस्तु प्रवातः प्रचुरातपः। ज्ञेयः स जागलो देशः स्वल्परोगतमोऽपि च ॥ प्रचुरोदकवृक्षो यो निवातो दुर्लभातपः।
अनूपो बहुदोषश्च समः साधारणो मतः ॥ चक्रपाणिकृता टीका यथा-केचिदल्पोदकद्रुमो यस्त्वित्यादिग्रन्थमत्र पठन्ति ।
For Private and Personal Use Only