________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४७२ चरक-संहिता। जनपदोद्ध्वंसनीयविमानम् प्रशोषमापद्यते। बहुदोषाणां पुनर्दोषावसेचनमेव कार्य, न ह्यभिन्ने केदारसेतो पल्वलाप्रसेकोऽस्ति तद्वदोषावसेचनम् ॥ २४
दोषावसेचनन्वन्यद्वा भेषजं प्राप्तकालमप्यातुरस्य नैवंविधस्य कुर्यात्। तद् यथा अल्पवाद-8-प्रतिकारस्याधनस्यापरिचारकस्य वैद्यमानिनश्चण्डस्यासूयकस्य तीव्रधारुचेरतिक्षीणबलमांसशोणितस्यासाध्यरोगोपहतस्य मुमूर्षलिङ्गान्वितस्य तपणम् । तत्र हेतुलेङ्घनेत्यादि। बहुदोषाणामित्यादि बहुदोषाणां बलवदव्याधीनामपतर्पणं दोषावसेचनं वमनविरेचनादिकम्। तत्र हेतुन ह्यभिन्न इत्यादि। यथा हि भिन्ने केदारे पल्वलस्याल्पसरसः प्रसेको भवति न खभिन्ने, तदोषावसेचनम् । वमनविरेचनादिना दोषे भिन्ने वहिनिःसृते शेषः प्रशोषमापद्यते ॥२४॥
गङ्गाधरः-ननु तदोषावसेचनमन्यद वा भेषजं सर्वेषां किं कुर्यादित्यत आह-दोषावसेचनन्वित्यादि। दोषावसेचनमन्यद् वा किमपि भेषजं प्राप्तकालमपि कर्त्तव्यकालप्राप्तमपि खल्वेवं विधस्य वक्ष्यमाणरूपस्यातुरस्य न कुर्यात् । कस्य कस्येत्यत आह-तद् यथेति। अल्पवादप्रतिकारस्य यो जनो जनैः सहाल्पवादे प्रतिकारानहें स्वभावात् तस्य प्रकारो यस्य स चेदातुरः स्यात् तदा तस्यौषधं दोषावसेचनमन्यद वा न कुर्यात् । स हि चिकित्सायां छलं गृहीखा वैद्यस्यायशःकीत्तनं करोति। एवमधनस्य चापचारकस्य च वैद्यमानिनश्च। यः स्वयं चिकित्सकाभिमानी स वैदा प्रत्येवमाह-नेदं भेषजात्रोपयुक्त नेदं पथ्यमित्येवमादिदूषणवाक्यम्। तथा चण्डस्य क्रोधनस्वभावस्य च वैद्यानामसूयकस्य च तीवधारुचिजनस्य । अतिक्षीणवलमांसादश्च तथैवासाध्यरोगोपहतस्य मुमूर्षु लिङ्गान्वितस्य च पाचनकाले हि यदि वृहगं क्रियते तदा वृहणेनाग्नेः प्रतिकूलेन पाचनं न स्यादित्यर्थः। अव. कोणरिवेत्यत्र 'इव'शब्दोऽनतिबदकमिवेत्येवंरूपो ज्ञेयः । अन्यदति लङ्घनादि वृहणादि च ॥ २४
चक्रपाणिः-अनपवादप्रतीकारो वाच्यप्रतीकारः, अधनस्पानुपकरणत्वेन न चिकित्सा पार्यते कर्तुमित्यर्थः, वैद्यमानीत्यभिमानाद वैद्योपदेशं न करोति ; तीवधारुचेः प्रतिक्रियायामधर्मो
* अनपवादेति वा पाठः।
For Private and Personal Use Only