________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः विमानस्थानम् ।
१४६६ समायुक्तोऽक्षः प्रकृत्यैवाक्षगुणैरुपेतः स्यात्, स च सर्वगुणोपपन्नो वाह्यमानो यथाकालं स्वप्रमाणक्षयादेवायसानं गच्छेत्, तथायुः शरीरोपगतं बलवत्प्रकृत्या यथावदुपचर्यमाणं स्वप्रमाणक्षयादेवावसानं गच्छति, स मृत्युः काले। यथा च स एवानोऽतिभाराधिष्ठितत्वात् विषमपथादपथादनचक्रभङ्गाद् बाह्यवाहकदोषादणिमोनादनुपाङ्गात् पर्यासनात् छ चान्तरावसानं गच्छति, तथायुरप्ययथाबलमारम्भाद् अयथानाभ्यवहाराद्ध विधार्यवेगाविधारणाद् + विषमशरीरन्यासान् असत्संश्रयाद भूतविषवारवग्नुापतापात् अभिघातात् आहारप्रतीकारवजनाचान्तरा अवसानमेवापद्यते, स मृत्युरकाले । तथा ज्वरादीनप्यातङ्कान् मिथ्योपचरितान् अकालमृत्यून् पश्याम इति ॥ २१ ॥ . अथाग्निवेशः पप्रच्छ—किं नु खलु भगवन् ज्वरितभ्यः
यथा हीत्यादि कालमृत्योदृष्टान्तः। अक्षो धुरीति लोके। प्रकृत्या स्फुटितत्रुटितक्रिमिभक्षणादिदोषाभावेन वर्तुलखढ़वादिभिरक्षगुणैः। यथा चेत्यादिना खकालमृत्योदृष्टान्तः। अणिमोक्षात् चक्रस्थापनकीलमोक्षात् । उपाङ्गानामङ्गसमीपस्थानामङ्गानाम् । पर्यासनाद्विपर्यासात् । अन्तरा खाम् यथाकालात् ॥२१॥
गङ्गाधरः- अथ ज्वरादीनां मिथ्योपचारादकालमरणप्रसङ्गेन ज्वरितेभ्य
एवेत्यर्थः। स्वप्रमाणक्षयादेवेति युगानुरूपवर्षशतक्षयादित्यर्थः। अपथादिति सर्वथा अमार्गगमनात्। अणिमोक्षादिति कीलमोक्षात्। पर्यसनं परिक्षेपः, अनुपाङ्गादिति स्नेहादानात् । मिथ्योपचारितानित्यसम्यकचिकित्सितान्। अकालमृत्यूनिति अकालमृत्युकरान् ॥ २१॥
चक्रपाणिः- सम्प्रति मिथ्योपचारश्रुत्या उष्णतोयं वरेऽप्याग्नेये मिथ्योपचारः स्यादिति
* पर्यसनादिति चक्रः। + विषमाभ्यवहरणात् अतिमैथुनात् उदोर्णवेगविनिग्रहात् इत्यधिकपाठो दृश्यते ग्रन्थान्तरेषु ।
For Private and Personal Use Only