________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४७०
चरक-संहिता। जनपदोदध्वंनीयसबिमानम पानीयमुष्णं प्रयच्छन्ति भिषजो भूयिष्टं न तथा शीतम् ? अस्ति च शीतसाध्योऽपि धातुर्वरकर इति ।
तमुवाच भगवानात्रेयः। वरितस्य कायसमुत्थानदेशकालानभिसमीक्ष्य पाचनार्थं पानीयमुषणं प्रयच्छन्ति भिषजः। ज्वरो ह्यामाशयसमुत्थः, प्रायशो भेषजानि चामाशयसमुत्थानां विकाराणां विरेचनवमनापतर्पणसंशमनान्येव ® भवन्तिापाचनार्थश्च पानीयमुष्णं तस्मादेतज्ज्वरितेभ्यः प्रयच्छन्ति भिषजोभूयिष्ठम् । तद्धि तेषां पीतं वातमनुलोमयत्यग्निश्चानुदीर्यमुदीरयति क्षिप्रश्च जरां गच्छति श्लेष्माणं परिशोषयति स्वल्पमपि च पोतं तृष्णाप्रशमनायोपकल्पते। तथा युक्तमपि चैतत् नात्यर्थोत्सन्नपित्ते ज्वरे सदाहभ्रमप्रलापातिसारे वा देयम्। उष्णेन हि दाहभ्रमप्रलापातिसारा भूयोऽभिवर्द्धन्ते, शीतेन चोपशाम्यन्तीति ॥ २२॥
उष्णपानीयदानं मिथ्योपचारं संशयानः पप्रच्छ। तदाह-अथेत्यादि। यत् पप्रच्छ तद् यथा किं नु खल्वित्यादि।
तमुवाचेति तमग्निवेशम् । ज्वरितस्येत्यादि। ज्वरितस्य नववरिणः । समुत्थानं निदानम्। पाचनार्थ रसदोषपाचनार्थम्। पानीयमुष्णं न तु शृतशीतम्। तद्धीत्यादि। तदुष्णं पानीयं पीतं तेषां नवचरिणाम्। तथायुक्तमित्यादि। तथा वातानुलोमनादिगुणयुक्तमप्येतदुष्णं पानीयमत्यर्थोत्सनपित्ते ज्वरे सदाहादिके वा न देयं भवति। कस्मात् ? उष्णेन हीत्यादि। अत्योत्सन्नपित्त इति वचनादल्पोत्सन्नपित्ते देयम्, तेन दाहादयो न भूयोऽभिवर्द्धन्ते इति ख्यापितम् ॥ २२ ॥
आशङ्कयाह-किं न्वित्यादि। शीतसाध्योऽपि धातुः पित्तमुष्णरूपमित्यर्थः । पानीयं यस्मात् सज्वरेभ्यो दीयते। तस्मात् पानीयमेवात्र पृच्छति। उत्सन्नपित्ते प्रवृद्धपित्ते
* पाचनवमनापतर्पणसमर्थानीति पाठान्तरम् ।
For Private and Personal Use Only