________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६८
चरक-संहिता। जनपदोद्ध्वंसनीयविमानम् अतः परमग्निवेश उवाच-एवं सत्यनियतकालप्रमाणायुषा भगवन् कथं कालमृत्युरकालमृत्युर्वा भवतीति ॥ २०॥
अथ तमुवाच भगवानात्रेयः-श्रूयतामग्निवेश, यथा यान
गङ्गाधरः-एवं गुरुणायुषो नियतकालप्रमाणवानियतकालप्रमाणखे द्वे स्थापिते श्रुखा अतः परं संशयानोऽग्निवेश उवाच- अतः परमित्यादि। एवं सतीति नियतकालप्रमाणायुषां कालसम्पूरणे मृत्युः कालमृत्युभवति अनियतकालप्रमाणायुषां कथं कालाकालमृत्युर्भवतीति ॥२०॥
गङ्गाधरः-तं पृष्टवन्तमुवाचात्रेयः- श्रूयतामित्यादि। अत्र शरीरविचयशारीरे वक्ष्यमाणं स्मर्त्तव्यम्। तद् यथा-यः कश्चित् म्रियते स सर्वः काल एव म्रियते। न हि कालच्छिद्रमस्तीत्येके भाषन्ते। तच्चासम्यक् न ह्यच्छिद्रता च्छिद्रता वा कालस्योपपद्यते, कालस्वलक्षणभावात् । तथाहुरपरे। यो यदा म्रियते, स तस्य नियतो मृत्युकालः। सर्वभूतानां हि कालः सत्यः समक्रियवादिति। तदपि चान्यथार्थग्रहणम्। न हि कश्चिन्न म्रियत इति समक्रियः कालस्वायुषः प्रमाणमधिकृत्योच्यते। यो यदा म्रियते स तस्य नियतो मृत्युकाल इति यस्येवं तस्य सर्वे भावा यथास्वं नियतकाला भविष्यन्ति, तच्च नोपपद्यते। प्रत्यक्षं ह्यकालाहारवचनकर्मणां फलमनिष्टं विपर्यये चेष्टम् । प्रत्यक्षतचोपलभ्यते खल कालाकालयुक्तिस्तासु तास्ववस्थासु तं तमर्थमभिसमीक्ष्य । तद् यथा-कालोऽयमस्य व्याधेराहारस्योषधस्य प्रतिकर्मणो विसर्गस्य चाकाले वा। लोकेऽप्येतदभवति। काले देवो वर्षत्यकाले च वर्षति। काले शीतमकाले च शीतम् । काले तपत्यकाले च तपति। काले पुष्पफलमकाले च पुष्पफलमिति तस्माद उभयमस्ति काले मृत्युरकाले च नैकान्तिकमत्र । यदि ह्यकालमृत्युन स्यानियतकालप्रमाणमायुः सर्व स्यादेवं गते हिताहितज्ञानमकारणं स्यादित्युक्तम् ।
चक्रपाणिः-एवं सतीत्यादि। यत् तावत् कालनियतम्, तस्याकाले मरणाभावादेव नाकालमृत्युरस्ति । यत्त्वकालनियतम्, तस्यानियतत्वात् कथं कालमृत्युः अकालमृत्युर्वा भवति ? अनियते ह्यायुषि कालनियमो नास्ति, नियमाच्चार्वाक् अकालमृत्युरिति तु पृच्छार्थः ॥ २०॥ ..
चक्रपाणिः- यशकालमिति यावता कालेन प्रत्यवाय शून्यस्याक्षस्य भयो भवति, तस्मिः
For Private and Personal Use Only