________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
विमानस्थानम् ।
१४६७ अपि च सर्वचक्षुषामेतत् परं यदिव्यचक्षुः * इदचाप्यस्माकं तेन प्रत्यक्षम्। यथा पुरुषसहस्राणामुत्थायोत्थायाहारं कुर्वतामकुर्वताश्चातुल्यायुष्टुम् । तथा जातमात्राणामप्रतिकारात् प्रतीकाराचाविषविषप्राणिनाश्चापि अतुल्यायुष्टमेव । न च तुल्यो योगः क्षमः उदपानघटानां चित्रघटानाश्चोत्सोदताम् । तस्माद्धितोपचारमूलं जीवितम, अतो विपर्यायान्मृत्युः । अपि च देशकालात्मगुणविपरीतानाश्च कर्मणाम् + आहारविकाराणाञ्च क्रमोपयोगः सम्यक्। त्यागः सर्वस्य चायोगमिथ्यायोगातियोगानां सन्धारणमनुदीर्णानामसन्धारणम् उदीर्णानाञ्च गतिमताम्। साहसानाञ्च वर्जनमारोग्यानुवृत्तौ हेतुमुपलभामहे सम्यगुपदिशामः सम्यक् पश्यामश्चेति ॥ १६ ॥ न विरोध इति। न हीन्द्राश्विनमहर्षयों मन्वादयो वा नासम्यक् पश्यन्ति कस्मादित्यत आह–अपि चेत्यादि। सर्वचक्षुषां ज्ञानानां मध्ये यदिदं दिव्यं चक्षुयोगसिद्धावाविर्भूतं दिवः परमव्योम्नः परमात्मतस्तत् तु परं चक्षुः तेन दिव्यचक्षुषेन्द्रादयो मन्वादयश्च दृष्ट्वा नियतानियतमायुरुपदिदिशुः। तथास्माकञ्च प्रत्यक्षमपीदमित्यादि स्पष्टार्थम् । न च तुल्ययोगः क्षेमः सर्वेषाम् उदपानघटानां यथोत्सीदतां योगः क्षेमो न तथा योगश्चित्रघटानां क्षेम इति । तस्मादित्यादि स्पष्टम् ।।१९ ॥ दृष्टकार्यानुपपत्तेः कल्पनीयम् । तेनादृष्टस्य कारणत्वं दृष्टकारणमूलमित्यर्थः। तेन, न च रष्टकारणोच्छेदः कल्पयितुमपि पार्यते। इष्टयो यज्ञाः। उरसा अत्यर्थसर्पणशीला उरगाः। आचरेयुभैषजमिति शेषः। चक्षुषां परमिति अत्यर्थानान्तत्वेन। अतुल्यायुष्टमिति, बे आहवं कुचते, ते शस्त्रेण म्रियन्ते ये तु न कुर्वते, ते शस्त्रेण प्रायो न म्रियन्ते। प्रतीकारादप्रतीकाराचातुल्यायुवमिति योजना। न च तुल्यमित्यादौ चित्रघटोऽयं चित्रित एव स्थाप्यते, स हि पानीयवहमादिप्रत्यवायहेत्वभावात् चिरं तिष्ठति। उदपानघटस्तु जलसम्बन्धात् तथा वहनसमये पतनादिना च शीघ्रमुत्सीदति। हितोपचारमूलमपि क्रियोपयोगं सम्यगिति योजना। सर्वातियोगसन्धारणं सर्वातियोगानां वर्जनम् ॥ १९ ॥ * ऐन्द्रं चक्षुरिति पाठान्तरम्। + आहारविहाराणाच क्रियोपयोगं सम्यक सर्वातियोगसन्धारणमसन्धारणमिति पाठश्चक्रसम्मतः ।
For Private and Personal Use Only