________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६६
चरक-संहिता। जनपदोध्वंसनीयविमानम् .न चानभ्यस्ताकालमरणभयनिवारकाणामकालमरणभयमागच्छेत्
एव प्राणिनाम्। व्यर्थाश्चारम्भकथाप्रयोगबुद्धयः स्युः सर्वेषां महर्षीणां रसायनाधिकारे।
नापीन्द्रो नियतायुष्कं शत्रु वज्रणाभिहन्यान्नाश्विनावेनं भेषजेनोपचरेताम् ®, न वर्षयो यथेष्टमायुस्तपसा प्राप्नुयुर्न च विदितवेदितव्या महर्षयः ससुरेशाः पश्येयुरुपदिशेयुराचरेयुर्वा, अपरश्चाह-न चेत्यादि। यः पुरुषैरकालमरणभयनिवारकाः प्रयोगा नाभ्यस्तास्तेषामकालमरणभयं नागच्छत् । नैवागच्छेदिति चेत्, तदा महर्षीणां रसायनाधिकारे खल्वकालमरणवारणार्थ चिकित्सादिक्रियारम्भकथाप्रयोगबुद्धयश्च व्यर्थाः स्युरिति।
नापीत्यादि स्पष्टार्थम्। व्यथा एव चेति चेत् तदोच्यते। इन्द्रोऽपि नियतायुष्कं वज्रेण नाभिहन्तुं शक्नुयान्नियतायुष्कखात् सर्वेषाम्। अश्विनी चानियतायुष्कमायु द्धार्थ भेषजेन नोपचरेताम्। ऋषयश्च तपसा यथेष्टमायुयंदापुस्तन्नाप्नुयुः । विदितवेदितव्या महर्षयः सुरेशश्चायुर्वद्धनानि रसायनादीनि विदिखा सम्यक् दृष्ट्वा चोपदिश्योपचेरुने तानि सम्यक् पश्येयुरुपदिशेयुराचरेयुवा इति। अत्र एके खाहुः। चतुष्पात् सकलो धम्मः सत्यञ्चैव कृते युगे। नाधमणागमः कश्चित् पुरुषं प्रतिवर्तते। अरोगाः सव्वेसिद्धार्थाश्चतुवेषशतायुषः। कृते त्रेतादिषु हेपामायुहसति पादशः। इति मनुना प्रतियुगं धम्मपादासाच्चतुर्वर्षशतायुषः पादपादहासः प्रतियुगमुक्त्वा नियतप्रमाणमायुरुक्तं, तत् पुननियतानियतायुर्वचनेनानेन विरुध्यते इति। तत्रोच्यते मनुनापि प्रतियुगं धम्मैपादह्रासादायुषश्च चतुर्वर्षशतस्य पादहासवचनेनैवानियतायुरुक्तं प्रतियुगमायुःप्रमाणभेदात् । तत्रापि प्रतियुगे य आयुषः प्रमाणनियमः स खलु धर्मपाद निबन्धन एव सामान्यत उक्तस्तेनैव यो यथा धर्माधर्मावाचरेत् तस्य तथायुभवेदिति च ज्ञापितमिति सर्वप्रामाणिकजनानामविवादसिद्धत्वाद् दर्श्यते, सा च, यदि नियतमायुः स्यात्, तदा अकिञ्चित्करी स्यात्, अनियते चायुषि किञ्चित्करी च स्यात्। तस्मादनियतमप्यायुर्भवतीति भावः। नप सर्वत्रैवाइष्टमेव कारणम्, रष्टस्यापि तृवृतादेविरेकादिकर्तृत्वं ब्यक्तमेव । आष्टस्यैव कारणत्वं
* नाश्विनावात भेषजेनोपपादयेतामिति चक्रः ।
For Private and Personal Use Only