SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः विमानस्थानम् । १४६५ तस्मादुभयदृष्टत्वात् तदेकान्तग्रहणमसाधु, निदर्शनमपि चात्रोदाहरिष्यामः। यदि हि नियतकालप्रमाणमायुः सव्वं स्यात्, तदायुकामाणां न मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपतनगमनाद्याः क्रिया इष्टयश्च प्रयुज्येरन् । नोदभ्रान्तचण्डचपलगोगजोष्ट्रखरतुरङ्गमहिषादयः पवनादयश्च दुष्टाः परिहार्याः स्युः, न प्रपातगिरिविषमदुर्गाम्बुवेगास्तथा न प्रमत्तोन्मत्तोद्भ्रान्तचण्डचपलमोहलोभाकुलमतयः, नारयो न प्रवृद्धोऽग्निर्न च विविधविषाश्रयाः सरीसृपोरगादयः, न साहसम्, नादेशकालचर्या, न च नरेन्द्रप्रकोपः ; इत्येवमादयो भावा नाभावकराः स्युः,आयुषः सर्वस्य नियतकालप्रमाणत्वात् । गङ्गाधरः-अत्र नियतकालप्रमाणमायुरिति मतं दूषयितुमाह-तस्मादित्यादि । तस्मात् कस्यचित् कर्मणो महतो विपाके कचित् काले नियमात् । कस्यचिन्महतः कम्प्रेणो विपाके कालानियमादुभयदृष्टवादुभयस्य नियतकालप्रमाणस्यानियतकालप्रमाणस्य चायुषो दृष्टखात् तदेकान्तग्रहणं तन्नियतकालप्रमाणमेवायुरित्यवधारणेन ग्रहणमसाधु। तदुभयस्यायुषो निदर्शनमपि चोदाहरिष्यामः। - ननु कस्मादुभयथायुभवतीत्यत आह -यदि हीत्यादि। हि यस्माद यदि नियतकालप्रमाणमेव समायुः स्यात् तदायुष्कामाणां सम्बन्धे मन्त्राद्याः क्रिया इष्टयश्च याशिकादिभिने प्रयुज्येरन् । उद्भ्रान्तचण्डचपलगवादयश्च परिहार्या न स्युः । इत्येवमादयो भावा उद्घान्तचण्डवालगवादयो भावाः सन्निहितस्यापि पुरुषस्याभावकरा न स्युः, सवस्यैवायुषो नियतकालप्रमाणवात् । चक्रपाणिः-अतः परमुत्तरमुपसंहरति, ---तस्मादित्यादि। उभयदृष्टत्वादिति दैवस्य पुरुषकारण तथा पुरुषकारस्य देवेन बाधदर्शनात्। एकान्तग्रहणमिति नियतमेवायुः समिति चेत्यर्थः। निदृश्यतेऽभिमतः पक्षः साध्यतेनेनेति निदर्शनं युक्तिरित्यर्थः। अत्रेत्यनैकान्तिकपक्षे ; यदीत्यादिना प्रकरणेनायुजनकस्य दृष्टस्य हेतोः सेवा, तथा आयुर्विरोधकस्य हेतोरसेवा १८४ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy