________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६४
चरक-संहिता। जनपदोद्ध्वंसनीयविमानम् कर्म किश्चित् क्वचित् काले विपाके नियतं महत् ।
किञ्चित्त्वकालनियतं प्रत्ययः प्रतिबोध्यते ॥ १८॥ पुण्येन पापेन वा तदितरत् पुरुषकाराख्यं कर्म पापं पुण्यं वा विरोधिनोपहन्यते । तस्माचोभयं दृश्यते। इह जन्मनि विपुलपापकारी दीर्घायुः सुखान्वितो नियतायुष्कश्च। प्रबलदैवेन पुण्येनेह कर्मकृतपापोपघातात् । इह जन्मनि पुण्यकारी स्वल्पायुर्दुःखान्वितोऽनियतायुष्कश्च। प्रबलेन दैवेन पापेनेह जन्मनि कृतकर्मपुण्योपघातात् इति । अत्रापरमुनिमतमाह --दृष्ट्वेत्यादि । इत्येवमुक्तप्रकारां युक्तिं दृष्ट्वा खल्वेके मुनयो यदायुषो नियतं मानं मन्यन्ते, तत् खलु किश्चित् किमपि कम महत् महाफलं कचित् काले विपाके परिणामे नियतं भवति। तस्मानियतमायुः स्यादिति । किञ्चित्तु महत् कर्म विपाके परिणामे अकालनियतं कालनियतं न भवति तस्मादनियतकालप्रमाणमायुरिति द्वयं प्रत्ययः प्रतीतिहेतुभिरुपदेशप्रत्यक्षानुमानयुक्तिभिः प्रतिबोध्यते इति॥१८॥ मरणकार्यजननादुपहन्यते। विशिष्टेन बलवता, इतरत् कर्म दृष्टं पुरुषकाराख्यम्, उपहन्यते परामयते। एतदैवकत्तुं कष्टपराभवदर्शनाद् दैवनियतमेव सर्वमायुरिति केचिन्मन्यन्त इत्याह-दृष्ट्वैत्यादि। यदि दृष्टमायुः कारणं स्यात्, न तदा भेषजैः सम्यगुपपादितानां मृत्युः खात्। यतश्च सत्यपि चिकित्सिते कम्मवशात् तु मृत्युर्भवति। तेन यत्रापि चिकित्सा जीवयतीति मन्यन्ते, तत्रापि कम्मैवास्ति जीवनकारणमिति दृष्टशक्तित्वादवधारयाम इति
भावः।
देवपुरुषकारयोरुभयोरपि बाध्यत्वं दर्शयन्नेकान्तेन नियतायुःपक्षं व्युदस्यति--कर्मेत्यादि । न क्वचित् कर्म न भवति। यदुच्यते-"नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । भवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥” इति। किञ्चित्त्वकालनियतमिति, यथा-इदं मारकं कर्म न तु क्वचित् काले पञ्चविंशवर्षादौ नियतम्, तेन यस्मिन् काले पुरुषकाराख्यं दृष्टकर्मानुगुणं प्राप्नोति, तस्मिन् काले सहकारिसान्निध्योपवृहितबलं मारयति, यदा तु दृष्टमपथ्यसेवादि न प्राप्नोति, न तदा मारयति। प्रत्ययैः प्रतिबोध्यत इति दृष्टकारणैरुद्रिक्त क्रियते। ये तु ब्रुवते-किञ्चित् कर्म कालनियतम्, यदा पच्यते, तस्मिन् काले पच्यत एवेति काल. नियमः। विपाकनियतन्तु-इदं कर्म विपच्यत एव, न तु विपच्यत इति न। कालविपाकनियतन्तु यथा--इदं कर्म अस्मिन्नेव काले विपच्यत एवेति । एतच्च कालविपाकनियतत्वात् बलवटुच्यते। एतदेव दृष्टाबाधनीयमिति । तेषां मते अभुक्तमपि क्षीयते दुचलकर्म प्रायश्चित्तादिनेति बोध्यम्, परं विपर्ययेऽपि तदा किञ्चित्त्वकालविपाकनियतमिति वक्तव्यं स्यात् । किञ्चित्वकालनियतवचनात् तु अकालनियतमिति ॥ १७॥१८॥
For Private and Personal Use Only