SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः विमानस्थानम्। १४६३ तयोरुदारयोर्युक्तिर्दीर्घस्य ससुखस्य च । नियतस्यायुषो हेतुर्विपरीतस्य चेतरा ॥ मध्यमा मध्यमस्येष्टा----- -----कारणं शृणु चापरम् ॥ दैवं पुरुषकारेण दुर्बलं हापहन्यते ॥ देवेन चेतरत् कर्म विशिष्टेनोपहन्यते। दृष्टा यदेके मन्यन्ते नियतं मानमायुषः॥ आह-दृष्टमित्यादि। तयोश्च का युक्तिरित्यत आह-तयोरित्यादि । तयोर्दैवपुरुषकारयोरुत्तमयोधम्मयोर्दैवपुरुषकारयोर्युक्तियोगो दीघस्य सुखान्वितस्य नियतस्यहितस्य चायुपो हतुर्भवति। धम्मो हि सर्वत्र शुभस्य हेतुरधम्मो नाशस्य चेति । यथाधम्मश्च वृद्धिहासावायुषः सर्वत्र । विपरीतस्य इस्वस्य दुःखान्वितस्यानियतस्य चायुषो हेतुरितरा हीनयोर्दैवपुरुषकारयोः पुण्ययोः पापयो चोत्तयोयुक्तियोगः। एवं मध्यमस्यादीर्घाहस्वस्य सुखदुःखान्वितस्य नियतानियतस्य चायुयो हतुमध्यमामध्यमयोदेवपुरुषकारयोः पुययोयुक्तिः पापयोश्च मध्यमयोः पुण्यहीनयोयुक्तिस्तन्मध्यमादल्पमध्यमस्यायुषो हतुरिति। ननु दैवपुरुषकारयोः पुण्यपापयोस्त्रिविधयोमिश्रणे कीदृशम् आयुः स्यादित्यत आह–कारणं शृणु चापरमिति। तद् यथा । दैवमित्यादि। दुब्बलं दैवं पुण्यं पापं वा पुरुषकारेण प्रबलेन विरोधिना यत उपहन्यते । दुर्बलं दैवं पुण्यं प्रबलेन पुरुषकारेण पापेनोपहन्यते पापञ्च दैवं दुर्बलं प्रबलेन पुण्येन पुरुषकारेणोपहन्यते। तस्मादुभयं दृश्यते इति। इह जन्मनि पापकारी स्वल्पायुदुःखान्वितोऽनियतायुष्कश्च दुर्बलदैवाख्यपुण्योपघातात् । इह जन्मनि पापकारी दीर्घायुश्च सुखान्वितश्च नियतायुष्कश्च दैवाख्यमबलपुण्येन दुर्बलपुरुषकारपापोपघातादिति। एवं दैवेन विशिष्टेन प्रबलेन विपरीतस्य दीर्घटेनानियतस्य तथा रोगयुक्तत्वेनासुखस्य । इतरेति हीनयोर्देवपुरुषकारयोर्युक्तिः इत्यर्थः। मध्यमा मध्यमस्य दीर्घत्वेनादीर्घत्वेनानियतस्य, तथा सुखासुखत्वेनानियतस्यायुषो मध्यमयोः कर्मणोर्युक्तिरित्यर्थः। कारणमिति दैवपुरुषकारगोः परस्परबाधने उपपत्तिम् इत्यर्थः। देवमित्यादि। दुर्बलमायुर्जननं देवं बलवता मारकेण दृष्टाऽपथ्यभोजनादिना विपरीत For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy