________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जनपदोदध्वंसनीयविमानम
१४६२
तं भगवानुवाचइहाग्निवेश भूतानामायुयुक्तिमपेक्षते। देवे पुरुषकारे च स्थितं ह्यस्य बलाबलम् ॥ देवमात्मकुतं विद्यात् कर्म यत् पूर्वदैहिकम् । स्मृतः पुरुषकारस्तु क्रियते यदिहापरम् ॥ बलाबलविशेषोऽस्ति तयोरपि च कर्मणोः। दृष्टं हि त्रिविधं कर्म हीनं मध्यममुत्तमम् ॥ गङ्गाधरः-तं भगवानात्रेय उवाच-इहेत्यादि। इह कर्मक्षेत्रे भूलॊके भूतानामायुयु क्तिं तर्कमपेक्षते।यौक्तिककालप्रमाणमायुः।युक्तिमाह-दैव इत्यादि। दैवमिति पूचदैहिकं पूर्वजन्मनि देहवता खल्वात्मना यच्छुभमशुभं वा कम्मे कृतं तत्फलं धमाधम्मरूपं दैवम् । इह तु जन्मनि यच शुभमशुभं वा कम्मे क्रियते तत्कम्मफलं धमाधम्मरूपं पुरुषकारः स्मृतः। ननु देवपुरुषकारौ सवें कुवन्ति न कथं सवपां समानमायुः प्रमाणं भवतीत्यत आह—बलाबलेत्यादि। तयोः शुभाशुभरूपदेवपुरुषकारयोबेलाबलविशेषोऽप्यस्ति। कुतो बलाबलमित्यत
चक्रपाणिः-युक्तिमपेक्षत इति दैवपुरुषकारयोर्युक्तिमपेक्षते नियतत्वेऽनियतत्वे वेत्यर्थः । बलञ्चाबलञ्च बलाबलम्, तत्रायुपो नियतत्वेन बलमनियतत्वेनाऽबलं ज्ञेयम् । यद्यपि पोर्चदैहिकं कास्थिरत्वेन गतम्, तथापि तजनितादृष्टस्य विद्यमानत्वात्, तदद्वारा तत् कर्म कारणं भवत्येवेहजन्मन्यपि। पुरुषकारस्त्विह जन्मन्यपि कृतं कर्म सामान्येनोच्यते। तत्र बलिमङ्गलादि अष्टजननत्वाद् व्याप्रियते, तथा भेषजादि रसरुधिरादिद्वारा। उदारयोरिति प्रशस्तत्वेनोत्तमयोः। दीर्घस्येति रसायनादिना शतादपि दीर्घस्य। सुखस्येति नीरोगत्वेन। नियतस्येति युगनियतस्य, कलौ वर्षशतप्रमाणस्येत्यर्थः। शतादर्वाङ नियतमपीह नियतशब्देनोच्यते, तेन न तत्र तस्य दैवपुरुषकारजन्यत्वं घटते, तथापि, तस्याऽप्रशस्तदैवपुरुषकारजन्यत्वात् देवपुरुषकारजन्यत्वं भवतीति युक्तम् ; किञ्च अनियतायुष एव पुरुषा रसायनाधिकारिणो भवन्ति नियतायुपं प्रति रसायनस्याकिञ्चित्करत्वात् । रसानादिकृतञ्चायुरनियतं प्रशस्तत्वेन प्रशस्तदैवपुरुषकारजन्यं भवतीति युक्तम् । किंवा, दीर्घत्वे सति नियतस्यायुपो हेतुरिति योजना। तेन, युगनियतञ्च शतवर्षम्, तथा तदधिकञ्चानियतं महता कर्मणैव क्रियते। पुरुषकारेण तु महतास्य सुखित्वं रोगोपघातात् क्रियते। रसायनेन च जरादिव्याधिप्रतिघातः क्रियते। रसायनलभ्यमप्यायुर्बलवत् कर्मनियतमेवेति भावः ।
For Private and Personal Use Only