________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
विमानस्थानम् ।
१४६१
इति विकाराणां प्रागुत्पत्तिहेतुरुक्तो भवति। एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच, किं नु खलु भगवन् नियतकालप्रमाणमायुः सव्वं न वेति ॥ १७ ॥ कार्यास्तेषामन्तन शक्तिराकाशरूपास्ति। न चास+गतलं शक्तराकाशरूपायाः। सर्वसंयोगशब्दविभवाच्च सव्वंगतलम् । अव्यूहाविष्टम्भविभुखानि चाकाशधम्मस्तेिन तेषामणूनां काय्येवप्रतिषेधः । तत्राह प्रलयवादी। मूत्तिमताश्च संस्थानोपपत्तेरवयवसदभावः। तैरणुभिर्हि काये मूर्तिरारभ्यते ततस्ते मूर्तिमन्तस्तस्मात् तेषामवयवाः सन्ति । संयोगोपपत्तेश्च । तैरनेकैमिलिखा यतः काये मूर्त्तिरारभ्यते ततः संयोग उपपद्यते तस्मात् तेषामवयवाः सन्ति । अनवस्थाकारिखादनवस्थानुपपत्तेश्चाप्रतिषेधः। तेषां परस्परमेलनेन काव्येषु अवस्थाविभिन्नखकारिखम् । न चेदवस्थाभेदस्य काय्येष्वनुपपत्तिस्तस्मात् संयोगस्य प्रतिषेधो न भवतीति प्रलयोऽस्त्येव न नास्तीति । ११ । __तत्राप्याह वादी। बुद्धया विवेचनात् तु भावानां याथात्म्यानुपलब्धेस्तन्त्वपकर्षणे पटसदभावानुपलब्धिवत् तदनुपलब्धिः । १२ । बुद्धया विवेचनात् तु गायत्रान्तानां प्रलये भावानां याथात्म्यस्यानुपलब्धिर्यदवशिष्यते। यथा-पटस्य तन्तूनामपकर्षणे एटस्य यदवशिष्यते तस्यानुपलब्धिः, परन्तु किमपि वर्तत एव । तस्मादणुसद्भावान्न प्रलयः। उक्तञ्च। असद वा इदमग्र आसीदिति । तत्राह प्रलयवादी । व्याहतत्वादहेतुः। तन्वपकर्षणे पटसभावानुपलब्धिवदुक्तरूपेण प्रलये यदवशिष्यते तस्यानुपलब्धिरित्यहेतुः। व्याहतत्वात् । पटस्य तन्वपकर्षणेऽवशेषाभावात् ततोऽवशिष्टं वर्त्तते इत्युक्तं व्याहतम् । १३ । तदाश्रयखादपृथग्ग्रहणम् । १४ । कार्य कारणाश्रितं तन्खाश्रितः पटस्तन्वपकर्षणे पटो नास्ति। यतः कार्यकारणयोर्न पृथगग्रहणम् । कस्मात् ? प्रमाणतश्चार्थप्रतिपत्तेः । १५ । प्रत्यक्षादिप्रमाणतो हि पटस्यासदभावप्रतिपत्तिः। प्रमाणानुपपत्त्युपपत्तिभ्याम् । १६। भावानामस्तित्वं नास्तित्वं प्रमाणैश्चोपपद्यते प्रमाणैश्च नोपपद्यते इति । इत्येवं महानिर्वाणे या शक्तिब्रह्म वर्तते सा मूला प्रकृतिः। सा तु न सर्गावस्था। येषां सर्गस्तेषां प्रलय इति ।।१६ ॥ __ गङ्गाधरः-इतीत्यादि। एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाचकिन्नु खल्वित्यादि। नु भो भगवन नियतकालप्रमाणमायुः किमनियतकालप्रमाणम् ? इति संशयः ॥१७॥
For Private and Personal Use Only