________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६०
चरक-संहिता। जनपदोदध्वंसनीयविमानम् स्थानि तेजोऽबन्नानि तेषामव्याकृतमूर्त्तिमतां संस्थानस्य विभिन्नस्योपपत्तेरवयवसद्भावः। संयोगोपपत्तेश्च। तेषां त्रयाणां संयोगश्चोपपद्यते ततस्तदवयवसद्भावः। अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः। तैस्तेजोऽबन्नै स्वित्त्रिभूतैः परमविद्यादीनामवस्थाविभिन्नताकारिखादन्यथा परमविद्यादीनामवस्थाभेदानुपपत्तिः स्यात् तस्माच्च तेषां तेजोऽवन्नानां संयोगप्रतिषेधो न भवतीति । यावान् संवत्सराणां पगर्द्धकालः प्रधानादिपरमविद्यान्तानामायुरुक्तस्ताववर्ष परमात्मनः शिवस्यैकमहस्तावती रात्रिरित्येवमहोरात्राणां षष्ट्यत्तरशतत्रयं वर्षमेकं तथाविवर्षाणां शतमायुः परमात्मनः शिवस्य तावत्कालं शिवस्य परमव्योमलक्षणावयवावयविप्रसक्तिः शिवायाश्च गायत्रया लोहितशुक्लकृष्णवल्लक्षणाया अवयवावयविप्रसक्तिरा प्रलयात् । महानिर्वाणाख्यप्राकृतप्रलयपर्यन्तम् । पूर्णे च तथाविधवर्ष शते पूर्वमेतदादिपरमविद्यासदाशिवान्तं परमात्मनि लीयते तत्परमात्मा शिवो गायत्रयां शिवायां लीयते गायत्रीस्थानां तेजोऽवन्नानामन्नमप्सु लीयते आपस्तेजसि लीयन्ते तेजः परमाकाशरूपायां शक्तो ब्रह्मणि लीयते इति गायत्री तेजोऽबन्नलक्षणहीना शक्तिरूपा अवतिष्ठते। इति महानिर्वाणाख्यः प्राकृतः प्रलयः। इत्येतदुक्तं श्वेताश्वतरोपनिषदि मन्त्रे। यत्रकोऽवर्णो बहुधा शक्तियोगाद वर्षाननेकान् विहितार्थो दधाति। विचैति चान्ते विश्वमादो स देवः स नो बुद्धया शुभया संयुनक्तु । इति। अग्निना चोक्तं वशिष्ठाय । सत्तामात्रात्मकेऽज्ञ ये ज्ञानात्मन्यात्मनः परे। आत्यन्तिकं लयं वक्ष्ये ज्ञानादात्यन्तिको लयः। इति। सत्तामात्रे शानात्मके परे ब्रह्मणि खल्वशे ये शक्तिमात्र परमस्यात्मनः शिवगायत्राभयात्मकस्य लय इति प्रकरणात् । ज्ञानात् तत्त्वज्ञानादर्बागेभ्यः प्रलयेभ्यो निर्वाणमुक्तिरात्यन्तिकः प्रलयो भवतीति । __ तत्राह वादी-न प्रलयोऽणसद्भावात् । नैवं प्रलयो भवत्यणसद्भावात् । एतदादीनामणवो हि शक्तो वर्तन्ते। इति ।। तत्राह प्रलयवादी। एतदादीनां येऽणवस्तेषां तदा त्रुटिः स्यात् ततो नाणुसदभावः।। तत्राह वादी। परं वा त्रुटेरिति । तेषाम् अणूनां त्रुटेर्वापरमसद्रूपाणामणूनां सदभावात् । तदुक्तं तैत्तिरीयोपनिषदि । असद वा इदमग्र आसीदिति। तत्राह प्रलयवादी। आकाशव्यतिभेदात् तदनुपपत्तिः। परममहाकाशरूपायाः शक्तस्तेषामणनामन्तर्व हिश्च समावेशात् सदभावानुपपत्तिः। आकाशास+गतत्वं वा ।। तत्राह वादी। अन्तर्वहिश्च काय्यस्य कारणान्तरवचनादकार्ये तदभावः। न हि तेऽसद्रूपा अणवः
For Private and Personal Use Only