________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः । विमानस्थानम् ।
१४५६ तेषामणनामवयवप्रतिषेधो न भवति इत्युक्तम्। अनवस्थाकारिखात् अनवस्थानुपपत्तेश्वाप्रतिषेध इति । तस्मादस्ति प्रलयः। संवत्सराणां द्विपराद्धं प्राकृतसगस्थितिकालस्ततः परं प्राकृतप्रलयस्तावत्कालं वर्तते। इति संवत्सराणां चतुःपराई प्रधानक्षेत्रज्ञपुरुषादोनामेकोऽहोरात्रस्तथाविधाहोरात्राणां षष्टुअत्तरत्रिशतमहोरात्राः संवत्सरस्तत्संवत्सरशतं तेषामायुरिति संवत्सरपरा नां चतुर्दश शतानि चत्वारिंशच परार्द्धानि वर्षमेकं भवति, तेषां वर्षाणां शतं संवत्सरापरार्द्धानां चतुश्चत्वारिंशत्सहस्राधिकलक्षमेकं भवति, तेन षट्त्रिंशत्सहस्राणि ब्रह्मणो भवन्ति। तावति काले सम्पूर्णे प्रकृतिपुरुषकालाश्चत्वारो वेदा विद्यावापराः पराविद्या च वेदान्तपुरुषः सदाशिवश्चेत्येते परमात्मनि परव्योम्नि व्योमकेशे शिवे लीयन्ते । स निर्वाणाख्यः प्राकृतः प्रलयः । तदुक्तमग्निना वशिष्टाय । प्रकृतिः पुरुषश्चैतौ लीयेते परमात्मनि । न तत्र सन्ति सर्वेषां नामजात्यादिकल्पना। इति । श्वेताश्वतरोपनिषदि मत्रश्च । यदा तमस्तान्न दिवा न रात्रिः न सन्न चासच्छिव एव केवलः। तदक्षरं तत् सवितुर्वरेण्यं प्रज्ञा च तस्मात् प्रसृता पूराणी। इति ।। इत्यवयवावयविप्रसक्तिश्चैवमा प्रलयादित्युक्तम् ।
तत्राप्याह वादी। न प्रलयोऽणुसद्भावादिति। तत्र परमात्मनि सर्वेषां विनाशेऽपि न प्रलयो भवति तेपामारभ्मकाणुसद्भावात् ।। नैवं ते ह्यणवस्तेषां विनाशे पार्थिवादिपरमाणुवदणुसद्भावाभावात् ।। तत्राह वादी। परं वा जुटेरिति । तेषां त्रुटेः परं वा तदुपादानानामणूनां सद्भावान्न प्रलय इति ।। तत्राह प्रलयवादी। आकाशव्यतिभेदात् तदनुपपत्तिः। प्रधानपुरुषादीनामुपादानभूता येऽणवस्तेषां सद्भावानुपपत्तिः परमाकाशव्यतिभेदात्। यदि परमाकाशसमावेशस्तेषामन्तवहिने स्यात् तदा आकाशासवंगतत्वं वा ।०। तत्राप्याह वादी। अन्तर्व हिश्च कार्यस्य कारणान्तरवचनादकाये तदभावः। कार्यस्य वस्तुनोऽनेककारणान्तरवचनात् तैः कारणान्तरैरारभ्यमाणे काव्ये खाकाशमन्तर्गतं वहिश्च भवति। न चैषां प्रधानपुरुषादीनामुपादानस्य कारणान्तरवचनमस्ति प्रसिद्धवादकाय्यत्वं ततस्तदणूनामन्तराकाशं परव्योमापि नास्ति ततो न सद्भावानुपपत्तिः। परव्योम्नश्चाकाशस्य नासर्वगतखम्। सर्वसंयोगशब्दविभवाच्च सर्वगतम्। अव्यूहाविष्टम्भविभुखानि चाकाशधर्माः। अण्ववयवस्याणुतरतमखप्रसक्तरणोः काय्यवप्रतिषेधः काय्यकारणवस्तुनोः परिमाणभेददर्शनात् । इति चेन काय्यकारणयोः परिमाणभेदादेव हि। मूत्तिमताश्च संस्थानोपपत्तेरवयवासद्भावः। परमविद्यादिप्रधानान्तानामुपादानं गायत्री
For Private and Personal Use Only